SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाषाम् । आहुः खलु प्रायश्चित्तविदः यच्च यदप्यवगतं परिजातं यच्चानवगतं यच्चानवगत मपरिजातं तस्य सर्वस्यैषैव प्रायश्चित्तविदुषा सुब्रह्मणेान कृतं सुब्रह्मणावान मेव प्रायश्चितं तस्मादेवं विदं यथोशाप्रकारेण ज्ञातार ब्राह्मणं सुब्रह्मणं कुर्वीत यजमान: अन्यथैवं विदं कुर्वीतेति ॥ २ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाश षड्विंशवाणाख्ये हितीयवाह्मणे प्रथमा. ध्याये द्वितीयः खण्डः ॥ २ ॥ अथ ढतीयखण्डः । प्रथ सर्वयत्रस्य विजेयानि दर्थयितुं प्रथमं प्रातः सवने विधेयं दर्शयति । एकच्छन्दः प्राय इति । प्रात: सवनमेकछन्दः । एकं गायत्रमेव छन्दो यस्य तत्तथोताम् । बहिपवमानीयानामाज्यस्तोत्रीयाणां च ऋचा सर्वासां भवति अपि गायत्रच्छन्दस्कत्वात् तस्मात्सत एव पुरुष एकपाद्भवति कथमेकयात् पुरुषो हिपात् सर्व तत्र दृश्यते श्रूयते च हिपाई पुरुष इति अत इत्ययुक्तम् । यद्यपि हिपात् पुरुषस्तथापि पथि गच्छन् अग्रमेकपादमन्यत्र पुरोदेश हरति प्रक्षिपति अन्येनेकपादेन भूमौ प्रतिष्ठति अत एकपात् पुरुष इति । अथ माध्यन्दिने सक्ने विज्ञेयं दर्शयति विच्छन्दा इति । माध्यन्दिनो माध्यन्दिनसवनसम्बन्धी पवमानः । त्रिच्छन्दास्त्रीणि गायत्री-वृहती-त्रिष्टुबाख्यानि छन्दांसि यस्य तथोक्तः अवाञ्चः प्राणास्त्रयः एको मूत्रविसर्जनस्य हेतुरपरः For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy