________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ३ खण्डः ।
यान्येवासुररक्षांसि असुराश्च रक्षांसि च पृथिव्यां सन्ति तानि सर्वाणवापहते विनाशयति । एवमन्यदपि व्याख्यायते । बत्ते तव परोरजाः रजस: लोकात्परः उत्कृष्टो ब्रह्मणोलोकः स परोरजाः स एव पञ्चमः पाद इति। तदाह रजस: परं ब्रह्मणः स्थानं तदेतत् स्थान परोरजा इत्येतत्पर माह तथा सा प्रसिद्धा त्वं नोऽस्मभ्यं इषमूजितं तसं चक्षुप्रसूरय इति यदाह तेन सा देवता अस्मै यजमानाय इषमूर्जं व धुदुग्धे किं च त्वं वौयं बलं वानाचं अनादिकं धनं च धेहि प्रयच्छेति यदाह तेन सा अम्मै यजमानाय वीर्यमनाद्यं दधातौति निगद प्रशंसा पूर्वकं सुब्रह्मणा वानस्य कालं दर्शयति । ब्रह्म श्रीवै इति अयं सुब्रह्मणा निगदो ब्रह्मणा ब्रह्म श्रीन वैम वेद वै न थीयते ब्रह्म वेदं श्रयतौति वा ब्रह्म श्रोरेव । किञ्च सुब्रह्मणेप्रति यत्साम प्रसिद्ध सामगैः क्रियमाणत्वात् यस्मादेव तस्मात्यातरनुवाक उपाकृते प्रातरारब्धेविसंस्थिते समाप्ते च यन्ने प्रत्यहम् अहर्गणेषु सुब्रह्मणा: सुब्रह्मणा माह्वयति । प्रशंसापूर्वकं सुब्रह्मणपाय अनडुक्त स्याऽनसो दानं विधत्ते एव वै इति एष वै यजमानो ब्रह्माग्निं सुब्रह्मेन्द्रच्चाप्नोति योय मनबुझायां एतदन: मुब्रह्मणप्राय ददाति । यथोक्तलक्षणाया: सुब्रह्मणपाया वेदितारं प्रस्तौति सुब्रह्मणोवै इति यः सुब्रह्म एवं यथोक्तप्रकारेण वेद जानाति सोऽस्य यजमानस्य यज्ञम् ऋग्यजु:सामात्मकवेदेनैव श्रिया पशुपुत्रादीनां समृध्या च समईयति समृद्धि करोति। पुनरपि सुब्रह्मणवां प्रशंसति अधोखल्वाहुरिति अथो इति अवान्तरवाक्योपक्रमाथैः
For Private and Personal Use Only