________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक १ खण्ड: ।
शब्दामाने गौतमब्रुवाणः । ब्रुवतेः कर्तरि व्यत्ययेन कमणि शानच् । तस्य सम्बोधनं गौतमब्रुवाणेति तद्याचष्टे, देवासुरा देवासुरा ह देवाश्वासुराश्च किं संयत्ताः परस्परं योद्धुमासक्ताः आसन् वभूवुः तानन्तरेण तेषां मध्य अन्तरान्तरेण युक्तइति द्वितीया गौतमो नाम ऋषिः शश्राम श्रम मुपाविशन् तं गौतम मुपेत्योपगम्येन्द्र : एवमुवाच - असुरा भवन्तं बाधेरन् । अत इहैवास्माकं स्पृशंश्वारो भूत्वा भवान् भवत्विति एवमुक्तवन्तमिन्द्रमृषिराह - अहमेव चाररूपेण वर्तितु नोत्सहे उत्साहं न करोमीति ।
अथ गौतमवचनानन्तरमिन्द्रो व्रवीति । श्रहं भवतो रूपेण स्पृशःसन् चराणौति तदनुमन्यते भवानिति पुनर्गोतमो ब्रवीति हे इन्द्र त्वं तथा येन प्रकारेण चरितुं मन्यसे तथा चरेति पश्चादिन्द्रः तथा चरेदिति शेषः । स इन्द्रस्तत्तदानीं गौतमोऽहमिति स्वयं वदन् गौतमरूपेण गौतमइति जनैरुच्यमानो वा चचारेति । यत्तदेवाचरणमाह— गौतमेतीति । गौतमब्रुवाणेति पदस्येकदेशः, एकदेशादानप्रतीतेः निगदशेष मुपादत्ते - इत्यहेति । हे मघवनिन्द्र ! इत्यहे एतावद हे अहे हाहेतिक्रान्ते सुत्यामागच्छ । परेद्युः सुत्या चेत् श्वः सुत्यामागच्छेत्यादेशः काव्यः । तथा च जैमिनिः । श्वः मुत्या मित्यैापवसथेहनि निर्दिशत् । सुत्याया आगमनेऽहनि तु अद्य सुत्या मागच्छेत्यादेशः काय्यैः । तथा च द्राह्यायणः - श्रद्येति समानानि तद्माचष्टे तद्यथार्हति उपलक्षणमेतत् ॥ तत्र यथार्हतो यथायोग्यं ब्रूयात्तस्यैव विवरण मित्यहेत्यत्र तावद हे हे चाहे देवा:
For Private and Personal Use Only