SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० व्राह्मणभाष्यम् ।। निगदशेषान्तर मुपादत्ते मेधातिथेमषेति। तदव्याचष्टे मेधातिथिं हरति ॥ काण्वायनं कण्वस्य युवापत्यं मेधातिथिनामानमृषिमिन्द्रो मेषोरूपधरो भूत्वा जहार स्वर्ग निनाय किल तथा वढचा आमनन्ति । इत्या धावन्तमद्रिवः कावं मेधातिथिं मेषोभूतोऽभित्यं नरः । अतो मेधातिथे मषेतीन्द्रः सम्वोध्यते पुनरपि निगदशेष मुपादत्ते वृषणवस्येति मेनाख्यस्य वृषणवस्य काचिन्मेनका नाम दुहिता आस बभूव तां मेनकामिन्द्रश्चकमे ह कामितवान् मेना भवं वृषणश्वस्य सुत्रातो इति नामान्तर मुपादत्ते गौरावस्कदिन्निति। तद्याचष्टे ---इन्द्र किल गौरमगो भूत्वा अरणयादवस्कद्य स्कन्दिर्गत्यर्थः राजानं सोमं सोमो वै राजा इति श्रुतेः पिवति स्म पयो गौरावस्कन्दो चेति कर्मधारयसमासेन गौरावस्कन्दिनिति इन्द्रः सम्बोध्यते नामान्तर मुपादत्ते-अहल्यायै जारेति। बहुलवचनात् षष्ठार्थे चतुर्थी अहल्याया जार इत्यर्थः । तद्याचष्टे अहल्याय ह इन्द्रः किल मित्राया दुहिता मैत्रेयी तस्या अहल्याया जार: उपपतिरास बभूव तयाचष्टे -कौशि कौशिक: कुशिकगोत्रोत्पन्नः कश्चित् ब्राह्मण: एनां प्रकृतामहल्या मुपन्येति स्म ह इण गता लट । सुइति परोक्षे लिट उपनौत उपसर्गेण उपयन् उपगच्छन् उपयेमे किलेत्यर्थः । तस्या जार: सन् तद्भर्तस्थाने तिष्ठतीति । कौशिकब्राह्मणेत्युपचारादामन्त्राते ॥ अथ नामान्तर मुपादत्ते गौतम ब्रुवाणेति । गौतम इति ह ब्रुवाण:। यहा गोतमरूपेण चरन् गौतम इति For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy