________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
वाक्यशेषस्याय मभिप्रायः । उऽ३ । अस्३ । फठ्३ । मृस्३ । हस्३ । प्रायश्चक्रमिति योनावुत्पत्र पुरोजितीवो अन्धस इत्यस्मि स्तुचे ॥ ४ ॥
इति श्रीमायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे षडविंशव्राह्मणाख्ये द्वितीयब्राह्मणे चतुर्थप्रपाठके चतुर्थखण्डः ।
८३
अथ पञ्चमखण्ड: ।
अथ प्रतिज्ञापूर्वकं वजयागं दर्शयति - श्रथैषष इति । अथानन्तर मेष वक्ष्यमाणो वजो वज्रसादृश्यादज्राख्यो याग उच्यत इति शेषः । एतेन बज्रेणाभिचरन् म्रातृव्यजिघांसुर्यजेत वज्रसङ्घातात्मकत्वादयं वज्रो यज्ञः सङ्घातिनां स्तोत्रीयाणां वज्रात्मकत्वात्तेन वज्रेणैव वय म भ्रातृव्याय प्रहरति स्तुत्यै तस्य हितार्थम् । के पुनः समुदायिनो वज्रा यत्समुदायो वज्र इत्याशङ्कय तविक्षुराह-- सर्वः पञ्चदशो भवतीति अस्य सर्वाण्येव रूपाणि स्तोत्रीयाणि पञ्चदशानि । तेन सर्वोऽप्यवयवी पञ्चदशो भवतीति । किं तत इत्यत्राह -- जो वै इति । पञ्चदशो वज्र एव ऐन्द्रत्वसाम्यात् श्रतस्तदवयवानि स्तोत्राण्यपि वज्र रूपाणि । तेन तं प्रसिद्ध हिंसा साधन मेवाम भ्रातृव्याय प्रहरति सुत्यै । तर्मविशेष दर्शयति-उक्थ्यः षोडशिमान् भवतीति । उक्थ मईतौतित्युक्थः । उक्थाह: उकथवान् भवतीत्यर्थः । किञ्च षोड़शमान् भवतौति तदुभयं स्तौति । पशवो वा उक्थानीति । उक्
वै
1
For Private and Personal Use Only