________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथमखण्डः ।
तेति । अनया त्रिणव स्तोमविष्ट त्या अभिचरन् स्तवीतेति शेषः। उक्तत्रिणवं वजस्य सादृश्य न प्रशसति-वजी वै त्रिणव इति। विणव एव वजः तिसृभिस्त्रिणवत्वात् । त्रिवृती वज एव प्रसिद्ध तत्तस्माद् वज़ एव परागञ्च न प्रवर्त्त यति । यः पुमानतया त्रिणवस्तोमविष्टुत्या स्तुते स आत्मनैव वसौ. यान् वसुमत्तमो भवतीति ॥ ५ ॥ इयि श्रीसायणाचार्यविरचिते माधवौये वेदार्थ प्रकाशे षड्विंशवाह्मणे हितोयब्राह्मणे वतीयप्रपाठक
पञ्चमः खण्डः। इति तृतीय प्रपाठकः।
अथ चतुर्थः प्रपाठकः ।
प्रथमः खण्डः । चतुर्थाध्यायस्य प्रथमानुवाके पञ्चविंशवाह्मणोक्त हादशाहादिकृतस्य व्य ढ़हादशाहस्य धम्मा निरूप्यन्ते। तत्र प्रथम माद्यन्तयोः प्रायणीयोदयनीययोरहोः सर्वयज्ञस्य साधारणत्वादवशिष्टाना महां मध्ये दशमस्याप्यविष्कियात्तत्रापि न किञ्चिहक्तव्यमस्तीत्य वशिष्टस्य नवरात्रस्य धम्मभेदा अनुवण्यन्ते । तत्र प्रथमनिरावस्य धर्मविशेषमाह-खरान्तः प्रथम इति। प्रथमस्त्रिरात्रः खरान्तः खरित मक्षर मन्ते यस्य स तथोक्तः त्रिरातसम्बन्धी यः पवमान: स्वरान्त इति भावः । तथा च पञ्चविंशवाह्मणे पवमानसामविधानानन्तरमाम्नायते स्वरमुख्य नेति तथा
For Private and Personal Use Only