________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशबाणभाष्यम् ।
गणः । स्व स्वीय मरण्य मतएव. वारण्येन यथा नि:कामं गच्छन् एतदतिच्छन्दोऽपि तादृताया रक्षसा मरण्यप्रापक किं तदतिच्छन्दः यस्मिन्बेतत् अवभृथं साम गायेदित्य वाहतबै सप्तेति । सप्तपदासु सप्तपदोपमेयास्वक्षु एतत्साम भवति। बहुवचनं गानाहत्यपेक्षया। यथोक्तमख्यां स्तौति-सप्त वै छन्दांसौति । चतुरुत्तराणि उत्तरोत्तराधिक्य नाक्षरचतुष्टयोपेतानि गायनवादीनि छन्दांसि सप्त वै सप्तव। तत्तेन यथा लोकः सर्वैः छन्दोभिरभयेन भयराहित्येनातिक्रामत् सर्वदुरितम् एतदपि तादृग्रक्षोनिवारकप्रशंसापूर्वक मवभृथसानः विर्मानं दर्शयति-तस्य निर्ववचन इति । अग्निष्टपत्यस्यां सप्तपदाया मृचि साम निराह विर्गायेत् । तस्य विवंचने सति पदानि पदा एकविंशतिः सामानि बौणि भवन्ति। तत्तथा सति चतुर्विशतिः संख्या सम्पदाते । अतः त्रिर्गानं प्रशस्तमित्यर्थः । यथोक्तसंख्या मुघ जीव्य पुनस्तत् संवत्सरानानं स्तीति-चतुविशतिरिति । चतुर्विशतिरईमासाः अतः सामापि चतुर्विशतिसंख्यासाम्यात् संवत्सरः। संवत्सरसाम्य सान उपपादयति तस्य ह वा इति। तस्यै तस्य संवत्सरामकस्य सानो हिद्वार एवाऽहोरात्राणि प्राथम्यसाम्यात्। आदिराद्या भक्तिरेव मासाः श्रेष्ठत्वसाम्यात् । उद्गीथ एव वसन्तादयः मुख्यत्वसाम्यात् । प्रतिहार भक्तिरेव पौर्णमास्यः प्रतिहार. साम्यात् उपवाख्या भक्तिरेवाष्टका। निधनमेव साम्यात्। समभक्तिपक्षे संवत्सरसाम्यमुपपायेदानों पञ्चभक्तिपक्षे तत्साम्य मुपपादयति-तस्य वा एतस्येति। तस्यै वस्य संव.
For Private and Personal Use Only