SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ द्वितीयप्रपाठके दशमखण्डः । दक्षिणत इति । दक्षिणतः कामं यथेष्टं श्रभिचरेयुः तन' यजमानं दक्षिणा आगामुकाभवन्तीति । पश्चिमभागे तावद्देभावशे षणे प्रत्यवायमाह - कामं पश्चादिति । कामं इच्छया पचादागे यदि तावन्मात्रं शेष मवशे षयेयुः अस्यादतिरेकादवरपुरुषाः श्रेयांसो भवन्ति । उत्तरभागे तावन्मात्र देशावशेषणे श्रयः प्राप्ति दर्शयति- काम मुत्तरतइति । उत्तरत: काममिच्छयातिरेकः कामन्तर्ह्यनं यजमानम् उत्तरा अन्यापि पुनर्यागप्राप्तिः देवयन्धोपनामुका भवति प्राप्नोतीत्यर्थः । किं चास्य श्रीरुत्तरोत्तरिणौ परम्परया बडा भवति । धर्मान्तरं दर्शयति-यस्य पुरस्तादिति । यस्य पुरस्तात्तविनाय आदित्य इति त्रीणि जयोतींषि दृश्येरन् तद्दे वयजनं काय्र्यम् । एवं सति तत्रिकं शुक्र शुक्र ज्योतिः त्रिज्योतिष्कं भवतीत्यर्थः । तव देव यजनस्य पुरस्ताद्भागे अपामेवावस्थानं विधीयते । अग्न्यादित्ययोरवस्थान मनुद्यति । पुरस्ताद्भागे आहवनीयस्योपस्थाननियमादित्यवस्थानस्य प्रत्यक्ष सिद्धत्वात् । अपा मभावे न्यग्रोधादि नापि भवितव्यमिति दर्शयतिपुरस्तादिति । देवयजनं पुरस्तात् परेभागे चित्रं यो वनस्पतिन्यग्रोधादि तच्छक्रमेव कार्य्यम् । तथाच द्राह्यायणः तदभावे महावृक्ष उदपानो महापथो वेति । तस्यार्थः तरङ्गिणीतटकादीना मभावे वृचः । उदपानः कूपः महापथो बा ग्राह्यइति । पश्चाद्भागे महावृतावस्थाने प्रत्यवाय माह :- पथा चित्रमिति । यदि देवयजनं पश्चाचित्रं भवेत्तर्हि श्मशानकरणमेव स्यात् । धर्मान्तरमाह - प्रागुदकप्रवणमिति । पूर्वोत्तरो देशः प्रवणो निम्म्रो यस्य तत्तथा देवयज: For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy