________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- षड्विंशब्राह्मणभाष्यम्
एता इति.। ता एता अग्न्यादय एव ऋत्विजां सन्दन्धिनीभिगिभिः प्रार्थिताः सत्यः देवयजनं ददति यजमानाय प्रयछति स च यजमानोऽन्यादिभिरेव दत्ते देवयजने यजन्तेन तमानुषेदत्त इत्यर्थः । कोश देवयजन मित्याशय तल्लक्षण दर्शयितु मुपक्रमते-यदुनतमिति । य तलं भूम्याः स्वसमीपस्थाया भूमरुन्नतं स्वय मेव न त्वसमीपस्थं प्रदेशान्तरम् उक्तं देवयजनवे ग्राह्य तथाच द्राह्यायण:-नचास्य स्थूलतर मदूरे स्यादित्यस्याथः । अस्य देवयजनस्य दूरे समीपे स्थूलतर मत्यन्नतं स्यात् किन्तु देवयजनसमोपे प्रदेश अत्यव्रतं भवेदित्ययः । किं च अनघरं अषर रहित मेव भूतलं देवयजनस्य एतस्यैव विवरगां यत्र यस्मिन् भृतले ओषधयो वहुला भवेयुस्त दनूषरम् ऊषरप्रदेश तेषा मनुद्भवात् । अपिच अत्र च देश चावालसारिण्यः। चाखालसारिण्य आपः स्यः तस्य चावाल देशस्य पुरः पुरस्तादाप: राञ्चरन्ति तहे वयजनं कार्यम् । विशेषान्तरमाह-तस्य न पुरस्तादिति । तस्य देवयजनस्य परिग्राह्यस्य हि पुरस्ताच्छम्याप्रासात् श. भ्यानिपातनाद्यावद्दे शोऽस्ति ततः पुरो देवयजनमानं देवयजनस्य यावत् प्रमाणं तावन्मानं प्रदेशं नातिशिष्यानाति वर्त. येत् अवशे षयेत् । तदवशेषण प्रत्यवाय माह-अवरपुरुषा हा इति। यस्य देवयजनस्य पुरस्ताद्भागे शम्यानिपातना, दागेवं देवयजनमात्र मतिरेचयन्ति अतिशेषयन्ति अस्मा त्तदवशेषादवरपुरुषा यजमानातिरिक्ता देष्टार इत्यर्थः । ते श्रेयांसः । अतिशयेन प्रशस्या भवन्ति। प्रसङ्गाहे वयजनस्य दक्षिाभागे तद्योग्य देशस्थिते न दोष इत्याह-काम
For Private and Personal Use Only