________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक ५ खण्डः ।
४३
अथ शब्दोऽवयवोपक्रमे । यत एवं चन्द्रमा दक्षिणेन पथा एति गच्छति तस्माद्ब्राह्मणं दक्षिणतो दक्षिणदिग्भागे आसयन्ति उपवेशयन्ति । अन्यत् धर्मं दर्शयति अथैतस्या मिति । अत्यधिकं पर्जन्यो विद्योतते विशेषेण स्वं मूर्त्तिमान् प्रकटयति । तस्मादुहाता एतामुदीचीन्दिशं प्रति उदङ्म ुखः सन् उद्गायति । धर्मान्तरं विधत्ते - अथैष इति । भूतानां पृथिव्यादीनां मध्ये एष व्याप्त आकाशः सन्नवहितो भवति । तस्मात् सदसो मध्ये सदस्यं सप्तदशमृत्विजमासं जयति । धर्मान्तरं विधत्ते – उच्चावचा वा इति अत आप उच्चावचा न्यूनाधिकभावेन वर्तते । उतापि च ता आपो गाधाः कचिदपगतप्रतिष्ठा इव भवन्त्यत एव गम्भीरादस्माडोत्राशंसिनः । उतापि च ता आपो गम्भीरा अगाधा इव भवन्ति । तस्माडोत्राश सिनोपि पञ्चर्चेन शस्त्रेण स्तुतिं कुर्वन्ति । उतापि च भूयसा बहीभिः ऋत्वभिः साध्येन शस्त्रेण स्तुतिं कुर्वन्ति । धर्मान्तरं विधत्ते आदित्यस्यैवेति ॥ ३ इति श्रीसायणाचाय्र्यविरचिते माधवीये वेदार्थप्रकाशे षड़ि ब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके चतुर्थः खण्डः ॥ ३ ॥
|
अथ पञ्चमखण्डः ।
अथ चमसभक्षणेऽस्यापहवाः कथ्यन्ते । तत्र प्रथमं प्रात: सवनसम्वन्धिन उपहवां दर्शयति स प्रातः सवनेति । स चमसस्य भक्षयिता प्रातः सवने सवनमुखीयेषु चमसेषु
For Private and Personal Use Only