________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४२
ष. ब्राह्मणभाष्यम् ।
नन्तरं प्राणः ततश्चक्षुः अथ श्रोत्रम् अथ वाचमिति । ततोऽपि किमित्यत्राह-ताभ्य इति। तेभ्यो मनादिरूपेभ्यो धुभ्यः पुरुषं पशूपश्च निरमिमौत उत्पादितवान् । अस्त्येवं किन्तत इत्यत्राह-तेन पुरुषेणेति। तेन धूभ्यों निर्निमित्तेन पुरुषेण देवा असुरानधूर्वन् अवधिषुर्यद्यस्मादधूर्वन्नती धुरां धूस्त्व मभूत् यत एवमुक्तरीत्या धुरः स्वरूपं वेद भाव्यं शत्रुरूपं पापमानं धूर्वति हिनस्तौति । पुनरपि प्रकारान्तरेण धुरः प्रशंसति---यो वै धुरामिति । यः खलु धुरां यथोक्तं धूस्त्वं वेद स भाव्याच्छनोः सकाशादाहृतया धुराः अनेकधनभारैर्वसीयान् अतिशयेन वसुमान भवति किञ्च ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडिशब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीय
प्रपाठक तीयः खण्डः ॥ ३ ॥
अथ चतुर्थखण्डः। प्राञ्चमग्निमिति । यस्मादग्नेरुडेतारः शालामुखोयादुत्तरवेद्यां प्रति प्राञ्चमग्नि मुबयन्ति तस्माहोता प्राडासीन: प्राङ्मुख उपविष्टोऽन्वाह अनुब्रूहि तं प्रेष मनुवचनं कुर्यात्तथा प्राडासौनो यजति याज्यां पठेत् । प्राडासौन: शंसति शंसनं पठति। धर्मान्तर माह-असावादित्य इति। धम्मान्तरं दर्शयति अथैष चन्द्रमा इति ॥
For Private and Personal Use Only