________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठकः ३ खण्डः ।
विधत्ते या द्वितीया तामिति । घोषिणः घोषवतीमिव गायेत् । स्पष्ट मन्यत् । तृतीयायां धर्मान्तरं विधत्तेया तृतीया तामिति । उद्यच्छन्ति वोई गमयतीव व्याख्यातप्राय मन्यत् । चतुर्ष्या धम्मान्तरमाह - या चतुर्थी तामिति । व्याख्याततर मेतत् । पञ्चम्यां धर्ममान्तरमाहया पञ्चमी तामिति । अंशभेदेन क्वचित्रिरुक्तं क्वचिदनिरुक्त मिव गायेत् हि यस्मादयं समानः प्राणो निरुक्ताऽनिरुक्तानिरुक्तमिव क्वचित् स्पष्टः । क्वचित् स्पष्ट इव शरीरे वर्त्तते । षष्ठयां धर्ममान्तरमाह - या षष्ठी तामिति । उत्तमा मृचं रथन्तरवणीं रथन्तरस्येव वर्त्तमानचतुष्टयोपेतायेत्यर्थः एतत्सर्वं व्याख्यातमिति नात्र पुनरुक्तिः शङ्कनीया पूर्वखण्ड विवरणरूपत्वादस्य खण्डस्येति ॥ २ ॥
इति श्रसायणाचार्यविरचिते माधवौये वेदार्थप्रकाशे षडि' शब्राह्मणाख्ये द्वितीयब्राह्मणे द्वितीयप्रपाठके द्वितीयः खण्डः ॥ २ ॥
४१
अथ तृतीयखण्डः |
आख्यायिकाधुरः प्रशंसितु मुपक्रमते – देवाच वा असुराश्चेति । पुरा देवाश्वासुराश्च एषु पृथिव्या लोकेषु विषयेषु स्यन्त तत्र तैः सुरेभ्यः स्पर्धमाना इन्द्रादयी देवाः प्रजापतिं मुपाधावन् ततः किमित्यत्राह - तेभ्यः एतामिति । स प्रजापतिस्तेभ्य एतान्वच्यमाणां धुरः । धूरात्मकान् प्रायच्छत् । तद्विशिनष्टि - प्रथमं मनः श्रथा
For Private and Personal Use Only