________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमखराज
स्वरनिधनादिभेदेन सामान्त्यभागानां चातुर्विध्यम् । स्वरादिवितयव्यतिरिक्तस्य निधनमिति रूढ्या नामधेयमिति पूर्वमेवोक्तम् एतेषां लक्षणानि च प्रदर्शितानि ।
ननु साम्नां पूर्वमेवान्यादिदेवताकत्व व्यवस्थितम् । इतः पर मपि सर्वाण्याग्न यादौनीत्यादिना वक्ष्यते च । किमर्थ वस्वादिदेवताकथनमिति तत्राह
१६ । यथा भयस्त्व न प्रदेशावर्तन्त इत्यन्तराणि ।
भूयसोभावो भृयस्त्वम् - सर्वश इत्यर्थः । तदनतिक्रम्य प्रदेशाः सानां वस्वाद्यपदेशा वर्तन्ते , अत उक्ताग्ने याद्यपेक्षया वस्वादिदैवतान्यभ्यन्तराणि ; पृथक पृथक् देवताभिधानात् पूर्वोलानां वाह्यत्वम्, इदानी सङ्घशोभिधामादान्तरत्वम् ।।
अथोक्त प्रकारेण देवताभिधानेऽपि निगूढ़तर सानां देवतापरिज्ञान प्रकारमाह
२० । अथान्तरतराणि सर्वाण्याग्न यानि
सर्वाण्य न्द्राणि सर्वाणि प्राजापत्यानि सा. मानौत्यन्तरतराणि ।
पूर्वन्तु साम्नां चतुर्दा विभागेन देवताच तुष्टयाभिधानमुक्तम् इह तु सर्वेषामपि सामनामग्यादिदेवताकत्वकथनादन्तरतरत्वम् ॥
For Private and Personal Use Only