SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyarmandir येन जीवानां अमनोज्ञः स्वर: स्यात् । ८ अनादेयनामकर्म-येन जीवानां वचनं केनापि न मन्यते । ९ अयश कीर्तिनामकर्मयेन जीवानां लोके अयश-कीर्तिः स्यात् । १० एवं स्थावरदशकं व्याख्यातं । इति चतुर्थ पापतत्त्वं प्ररूपितम् । अथ पंचमं आश्रवतत्वं व्याख्यानयति छ इंदिय कसाय अव्वय, जोगा पंच चउ पंच तिन्नि कमा । किरियाओ पणवीसं, इमा उ ताओ अणुकमसो ॥१६॥ इंदिअ० इति इंद्रियाणि कषायाः अत्रतानि योगाः एतेषां क्रमेण पंच चत्वारः पंच त्रयः भेदा भवंति । तत्र इंद्रियाणि पंच श्रोत्रादीनि प्रसिद्धान्येव सामान्यतः । विशेषतः पुनस्तानि द्विधा द्रव्येद्रियाणि भावें द्रियाणि । तत्र द्रव्येंद्रियाणि पुद्गलद्रव्यरूपाणि भावेंद्रियाणि लब्ध्युपयोगलक्षणानि । पुनःद्रव्ये द्रियाणि निवृत्तिउपकरणभेदात् द्विधा । निवृत्तिरपि द्विधा अंत:बहिश्च । तत्र श्रोत्रंद्रियमध्ये कदंबकुसुमाकारा देहावयवरूपा निवृत्तिरस्ति या शब्दप्रकारग्रहणे वर्तते । चक्षुरिंद्रयस्य धान्यमसराकारा, घाणेंद्रियस्य अतिमु तकपुष्पाकारा, काइलिकासदृशी वा रसनेंद्रियस्य क्षुरप्राकारा, स्पर्शने द्रियस्य नानाकारा अभ्यंतरा निवृत्तिः । वाह्या निवृत्तिः पुनः सर्वेषां इंद्रियाणां या दश्यमानास्ति सैव ज्ञातव्या । उपकरणं तेषामेव पुनः कदंबा| कारादीनां खड्गस्य छेदनशक्तिरिव स्वस्वविषयग्रहणशक्तिः तद्पं ज्ञातव्यं । एवं द्रव्येंद्रियस्वरूपं प्रोक्तं । भावेंद्रियाणि लब्ध्युपयोगरूपाणि | जीवस्य ज्ञानावरणादिकर्मक्षयोपशमभावात् या शब्दादिग्रहणशक्तिः सा लब्धिः । येन पुनः शब्दादीनां ग्रहण SAKASERESTROREGA For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy