SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Sri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव० कारविशेषरूपाणि समचतुरस्रपर्यक-न्यग्रोधपरिमंडल-सादि-कुब्जक-वामन-हुंडाख्यानि । तत्र समचतुरस्रपर्यकं पर्यकासनी-19 पविष्टजिनबिंबानामिव ज्ञातव्यं तच्च पुण्यप्रकृति पूर्वोतं । न्यग्रोधं यथा न्यग्रोधो वटः उपरि संपूर्णावयवः अधस्तु हीनः तथा र नाभेरुपरिलक्षणोपेततया संपूर्ण अधस्तु हीनं यत्संस्थानं तन्न्यग्रोधपरिमंडलं । ७८ । सादि संस्थानं सह आदिना वर्तते तत्सादि । नाभेरधस्तात् यथोक्तलक्षणप्रमाणोपेतं पुनः उपरिहीनं इति भावः । ७९ । कुब्जसंस्थानं यत्र पादपाणिशिरोग्रीवादिकं प्रमाणलक्षणोपेतं उरउदरादि च हीनं तत् कुब्ज । ८०। तद्विपरीतं वामनसंस्थानं । ८१। सर्वावयवैरशुभं हुंड-16 संस्थानं । ८२। सांप्रतं प्रायो मनुष्याणां तदेव । एवं द्वधशीतिः पापप्रकृतयो व्याख्याः । अथ पूर्वमुक्तं स्थावरदशकं व्याख्यानयति थावर सुहुम अपज्जं, साहारणमथिर मसुभदुभगाणि । दुस्सरणाइज्जजसं, थावर दसगं विवज्जत्थं ॥१५॥ थावर० इति-गाथा-तिष्ठंति उष्णादितापिता अपि तत्परिहारासमर्था भवंति ते स्थावराः ते सर्वेप्येकेंद्रिया ज्ञातव्याः । स्थावरत्व प्रदायककर्म स्थावरनामकर्म । १ सूक्ष्मनामकर्म येन जीवाश्चर्मचक्षुषामदृश्या भवंति यथा निगोदादयः । २ अपर्याप्तनामकर्म-येन जीवा पर्याप्ति विना नियंते । यथा सर्वकालं निगोदाः३ साधारणनामकर्म-येन एकस्मिन् शरीरे अनंतानां जीवानां || अवस्थानं भवति यथा कंदाद्यनंतकायमध्ये । ४ अस्थिरनामकर्म-येन जीवानां ओष्ठजिहादयोऽवयवा अस्थिराः स्युः । ५ अशुभनामकर्म-येन नाभेः अधः शरीरं अशुभं स्यात् । ६ दुर्भगनामकर्म-येन जीवा दौर्भाग्यवंतो भवन्ति । ७ दुःस्वरनामकर्म *ARREAUSERLEGTE BESCHICHTE ॥७॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy