________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
AAAA
तत्र येन खियं प्रति अभिलाषः स्यात् स पुंवेदः तृणदाहतुल्यः। येन पुरुषं प्रत्यभिलाषः स्यात्स स्त्रीवेदः करीपदाहतुल्यः । येन पुंस्त्रीविषये अभिलाषः स्यात् स नपुंसकवेदः नगरदाहतुल्यः । एवं षोडशकषायः नव नोकषायैः कषायपंचविंशतिर्व्याख्याता । एवं पूर्वोक्तपंचत्रिशत्कषायपंचविंशतिमीलने षष्टिर्भेदाः । ६० । तिर्यगद्विक तिर्यग्गति तिर्यगानुपूर्वी रूपं । येन तिर्यग्गतौ गम्यते सा तिर्यग्गतिः । ६१ । येन तिर्यग्गतौ बलान्नीयते सा तिर्यगानुपूर्वी । ६२ । एकेंद्रियजातिः यया जीवानां एकेंद्रियत्वं भवति सा एकेंद्रियजातिः । ६३ । एवं द्वि-त्रि-चतुरिंद्रियजातयो ज्ञेयाः । ६४-६५-६६ । कुखगतिः यया जीवानां अशुभगतिः यथा खरोष्ट्रादीनाम् । ६७। उपघातनामकर्म येन स्वशरीरावयवः प्रतिजिहा-गलकंठिका-चोरदंतादिभिः उपहन्यते तत उपघातनाम कर्म । ६८। अप्रशस्तं वर्ण-गंध-रस-स्पर्शस्वरूपं । ६९-७०-७१-७३ । प्रथमं संहननं संस्थानं वर्जयित्वा शेषाणि पंच संहननानि पंच संस्थानानि च पापप्रकृतिमध्ये ज्ञातव्यानि । प्रथमं संहनन प्रथमं संस्थानं पुण्यप्रकृतिमध्ये पूर्वमेव कथितं । तत्र संहननानि वज्रऋषभनाराच १ ऋषभनाराच २ नाराच ३ अर्द्धनाराच ४ कीलिका ५ सेवाःरूपाणि । यस्मिन् अस्थिसंधौ उभयतो मर्कटबंधः पट्टकीलिका च स्यात् तत् वज्रऋषभनाराचं तत्पुण्यप्रकृतिमध्ये ज्ञातव्यम् । कीलिकारहितं ऋषभनाराचं । ७३ । अस्थिसंधौ उभयतो मर्कटबंधः स्यात् तन्नाराच । ७४ । यत्रैकपाधैं मर्कटबंधोऽपरपार्वे च कीलिका स्यात् तत् अर्द्धनाराचं । ७५। यत्रास्थीनि कोलिकामात्रबद्धानि स्युः तत्कीलिकाख्यं
। ७६ । यत्र पुनः अस्थीनि पृथक् स्थितानि परस्परं संलग्नानि भवंति तत् सेवाः । ७७ । नित्यं स्नेहाभ्यंगादिसेवया हैऋतं व्याप्त सेवा इति नामार्थः । एवं पंचसंहननानि पापप्रकृतिमध्ये गतानि व्याख्यातानि । अथ संस्थानानि तान्या
ऋषभनाराचं । ७३ | भगा । ७५ । यत्रास्थावात । ७७ । ि
For Private and Personal Use Only