________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
S
न. त
अव०
AMAALHAECASSEOHD
करोति वासुदेवार्द्धबला च स्यात् सा स्त्यानदिः । १९ एवं दर्शनचतुष्कनिद्रापंचकमीलने नव भेदाः पूर्वोक्तसहिता एकोन-51 विंशतिर्जाता। नीचैर्गोत्रं यदुदयाज्जीवानां नीचकुले जन्मस्यात् । २० असातावेदनीयं येन जीवा दुक्खपरंपरां लभते तच्च प्रायस्तिर्यग्नरकेषु स्यात् । २१ मिथ्यात्वं-"अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्मेधर्मबुद्धिश्च मिथ्यात्वंतभिगवते" ॥१॥ इत्यादि लक्षणम् । २२ स्थावरदशकं अग्रेतनग थायां व्याख्यास्यते । २३ थी ३२ नरकत्रिकं नरकगति-नरकायु-नैरकानुपूर्वीलक्षणं । यया जीवो नरके याति सा नरकगतिः । ३३ येन जीवो नारके तिष्ठति तनरकायुः । ३४ यया जीवो बलानरकेनीयते सा नरकानुपूर्वी । ३५ कपायाः पंचविंशति ते चैवं पोडश कषायाः नव नोकषायाः। तत्र कषायाः क्रोध-मान-माया-लोभरूपाः । प्रत्येकं चतुः प्रकाराः। अनंतानुबंधिक-अप्रत्याख्यानक-प्रत्याख्यानक-संज्वलनभेदैर्बोदव्याः। तत्र अनंतानुबंधिका आजन्मावधिभाविनः नरकगतिप्रदायिनः सम्यक्त्वघातिनो ज्ञेयाः । अप्रत्याख्याना वर्षावधिभाविनः तिर्यग्गतिदायिनः देशविरतिघातिनः। प्रत्याख्याना मासचतुष्टयमाविनः मनुष्यगतिदायिनः साधुधर्मघातिनः। संज्वलनाः पुनः पक्षावधयो देवगतिप्रदाः केवलज्ञानघातिनः। एवं क्रोधादयः प्रत्येक चतुर्भेदाः षोडशाऽभुवन् । नोकपाया नव हास्यादिषट्कवेदत्रयरूपाः। तत्र हास्यषट्क हास्य-रति-अरति-शोक-भय जुगुप्सालक्षणं ज्ञातव्यम् । तत्र येन सनिमित्तं निनिमित्तं वा हास्य स्यात् तत् हास्य मोहनीयं । येन मनोहरेषु शब्दरूपादिपदार्थेषु रागः स्यात्तत् रतिमोहनीयम् । येन पुनः अमनोहरेषु तेषु उद्वेगः स्यात् तत् | अरतिमोहनीयं । येन अभीष्ट वियोगादिदुःखं ध्रियते तत् शोकमोहनीयं । येन जीवानां नानाविधनिमित्तैर्भयमुत्पद्यते तत् | भयमोहनीयं । येन बिभत्सवस्तुदर्शनेन निंदादिकं करोति तत् जुगुप्सामोहनीयं । अथ वेदत्रयं पुंवेद-स्त्री वेद-नपुंसकवेदरूपं ।
AE
॥६
॥
For Private and Personal Use Only