________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अव०
न. त. ॥४॥
-
MARA
साउच्चगोअ इति, वण्णचउक्त इति पुण्य तत्त्वस्य एते द्विचत्वारिंशभेदा भवंति । यथा-सातं सातावेदनीयं कर्म येन जीवः सौख्यानि लभते ॥१॥ उच्चैर्गोत्रं यस्मिन्नुत्पन्नो जीवः सर्वजन मान्यः स्यात् ।।२।। मनुष्यद्विकं मनुष्यगति-मनुष्यानुपूर्वीरूपम् ॥३-४॥ यया कर्मप्रकृत्या जीवो मनुष्यगतित्वं लभते सा मनुष्यगतिः। यया कर्मप्रकृत्या मनुष्यगतिबद्धायुः जीवोऽन्यत्र गच्छन् मनुष्यगतौ आनीयते सा मनुष्यानुपूर्वी । सुरद्विकं सुरगति-सुरानुपूर्वीरूपं ॥४॥ सा मनुष्यगति-मनुष्यानुपूर्वीवत् ज्ञेया ।। पंचेंद्रियजाति: यया जीवस्य पंचेंद्रियत्वं स्यात् ।।७॥ पंच देहाः शरीराणि । औदारिकं वैक्रिय आहारकं तैजसं कार्मणं च ।
औदारिकं उदारैः स्फारैः पुद्गलैः निष्पन्नं तत् औदारिकम् ॥८॥ तिर्यग्मनुष्याणां योग्यं शरीरम् ॥८॥ वैक्रियं विविधक्रियाया निष्पन्नं ॥९॥ देवनारकाणां शरीरं वैक्रियलब्धिकृतं शरीरं ज्ञेयम् । आहारकशरीरं यत्र चतुर्दशपूर्वधरैः संदेहोच्छेदाय | तीर्थकरद्धिदर्शनाय वा महाविदेहगमनाथ एकहस्तप्रमाणात्यंतविशिष्टरूपसंपन्न विधीयते शरीरं तत आहारकशरीरम् ॥१०॥
तैजसशरीरं तत् येन शरीरेण जीवः आहारो गृहीतः खलु रसादिधातुरूपतया परिणति नीयते यद्वशात्तपोलब्ध्या तेजोलेश्या| निगमश्च क्रियते तत्रैजसं ॥११॥ कार्मणशरीरं अष्टविधकर्मविकाररूपं सर्वशरीरकारणभूतं ॥१२॥ तैजसकामपशरीरे संसारिजीवानां अनादिकाल संबद्ध भवतः । मोक्षगमनं विना तयोः कदापि वियोगो न स्यात् । एवं द्वादशपुण्य प्रकृतयोऽभूवन् । आदिशरीरत्रयस्य उपांगानि । औदारिकस्य १३ चैक्रियस्य १४ आहारकस्य १५ तैजसकार्मणयोन भवति । आदिसंहननं वरिषभनाराचसंहननलक्षणं १६ संस्थानं समचतुरस्ररूपं १७ वर्णचतुष्कं वर्ण १८ गंध १९ रस २० स्पर्श २१ रूपम् । अत्र पुण्यप्रकृत्यधिकारे प्रशस्तं ग्राह्यं अप्रशस्तं पुनः पापप्रकृत्यधिकारे कथयिष्यते । अगुरुलघुनामकर्म येन कर्मणा जीवानां शरीरं
ALRAGARAA%
VAN
॥४॥
%
For Private and Personal Use Only