SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अब एवं अजीवाः चतुर्दशभेदा भवंति । अथ एतेषां विशेषस्वरूप प्रापयति । न. त. 15 धमाधम्मापुग्गल, नह कालो पंच हुँति अज्जीवा । चलणसहावो धम्मो थिरसंठाणो अहम्मो अ॥६॥ धम्मेति-धर्मास्तिकायाधर्मास्तिकायपुदलास्तिकायाः नभ आकाशास्तिकायः कालः समयादिः एतानि पंचद्रव्याणि अजीवाः प्रोच्यन्ते षष्ठं जीवद्रव्यं एवं जिनशासने पद द्रव्याणि कथ्यन्ते । अथ क्रमेण धर्मास्तिकायादीनां लक्षणमाह । चलणेति चलनस्वभावो धर्मास्तिकायः। जीवानां पुदगलानां च गमनं कुर्वतां यद्रव्यं साहाय्यं ददाति तद्धर्मास्तिकायः । यथा मत्स्यानां जलं धर्मास्तिकायः (अपेक्षा कारणरूपं ) इत्यर्थः । स्थिरसंस्थानः पुनः अधर्मास्तिकायः। स्थिरसंस्थान इति किमुच्यते । यद् द्रव्यं जीवपुद्गलानां स्थितिं कुर्वतां सानिध्यं ददाति सः अधर्मास्तिकाय इति भावः । एतौ धर्माधर्मास्तिकायौ यत्र वर्तते | स लोकाकाशः । चतुर्दशरज्जुप्रमाणः । ततः परस्तु अकोकाकाशः। एवं धर्माधर्मास्तिकाययोविशेषस्वरूपं प्ररूपितम् ॥६॥ ___अथ आकाशपुद्गलयोः स्वरूपमाह । अवगाहो आगासं, पुग्गलजीवाण पुग्गला चउहा। खंधा देस पएसा, परमाणु अ चेव नायव्या ॥७॥ __ अवगाहो-इति जीवपुद्गलानां अवकाशः जीवानां पुद्गलानां च यद् अवकाश, ददाति तत् आकाशं तत् आकाशद्रव्यमिति भावः । पुद्गलाचतुर्विधाः स्कंध-देश-प्रदेश-परमाणु भेदैर्ज्ञातव्याः । स्कंधादीनां स्वरूपं पूर्व मेवोक्तं झालयं ॥७॥ ROSSESCRICROREOGRCit! For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy