________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
येषां जीवानां यावन्मात्राः पर्याप्तयो भवंति ते जीवास्तावन्मात्राभिः पर्याप्तिभिः पर्याप्ताः कथ्यते । तद्विपरीता पुनः अपर्याप्ता | मंतव्याः । सूक्ष्मैकेन्द्रियपर्याप्ता सूक्ष्मैकेंद्रियापर्याप्ताः बादरैकेंद्रियपर्याप्ता बादरैकेंद्रियापर्याप्ताः । एवं द्वित्रिचतुः पंचेंद्रियसंझ्यसज्ञिनः पर्याप्तापर्याप्ताः सर्वे जीवाश्चतुर्दशभेदा ज्ञातव्याः। इति जीवतत्त्वं प्ररूपितम् ।
अथ अजीवतत्त्वम् Eg धम्माधम्मागासा, तिय तिय भेया तहेव अद्धाय । खंधा देस पएसा, परमाणु अजीव चउदसहा ।। ५॥
धम्माधम्मेति-एते चतुर्दशभेदा अजीवानां । धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः एते प्रत्येकं त्रिधा । तथाहि- स्कंधः देशः प्रदेशः धर्मास्तिकायस्य तथा अधर्मास्तिकायस्य त्रयः तथा आकाशास्तिकायस्य त्रयः । एवं नवभेदा अभूवन् । तत्र अस्तीनां प्रदेशानां कायः समूहः अस्तिकायः। तत्रस्कंधः कीदृगुच्यते । चतुर्दशरज्ज्वात्मके लोके सकलोऽपि यो धर्माऽस्तिकायः स सर्वोऽपि स्कंधः कथ्यते । तस्य धर्मास्तिकायस्य कियन्मात्री भागो देश उच्यते । तस्य धर्मास्तिकायस्य निर्विभागो भागः प्रदेशः। एवं अधर्मास्तिकायाऽऽकाशास्तिकाययोरपि स्कंध-देश-प्रदेशा ज्ञेयाः । तथा ऽद्भाकाल: समयादिलक्षणः स च दशमो भेदः । तथा पुदलानां चत्वारो भेदाः स्कंध-देश-प्रदेश-परमाणवश्च । तत्र द्वयणुकादयः क्रमेण एकादिवृद्धया अगंताणुकावसानाः स्कंधाः । तेषां कियन्मात्रा भागा देशाः प्रोच्यते । तेपां निर्विभागा भागाः पुनः प्रदेशा उच्यते । परमाणवः पुनः परस्परमसंबद्वा अतीव सूक्ष्माः स्कंधादिकारण रूपा निर्विभागा एव ज्ञातव्याः ।
READAR.RRAPE
For Private and Personal Use Only