________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
1.त.
मा अव०
॥२॥
एकं शरीरलक्षणं इंद्रियं येषां ते एकेंद्रियाः। ते च द्विधा सूक्ष्मा बादराश्च । तत्र सूक्ष्माश्चर्मचक्षुषा अदृश्याः । बादराः पुनदृश्याः। ते च द्वयेऽपि पृथिवीकाय-अपकाय-तेजाकाय वायुकाय-वनस्पतिकायरूपाः। तथा द्वींद्रियाः द्वे शरीररसनालक्षणे इंद्रिये येषां ते द्वींद्रियाः । शंख-कपर्दक-गडोल-जलूका-कृमि-पूतरक प्रमुखाः । तथा त्रींद्रियाः त्रीणि शरीररसनाघ्राणलक्षणानि इंद्रियाणि येषां ते त्रींद्रियाः । पिपीलिका-का-मस्कूणोपदेहिका-मत्कोटकगर्दभक-गोकीटक-धान्यकीटक-कुंथुकप्रमुखा ज्ञातव्याः । तथा चतुरिंद्रियाः चत्वारि शरीररसनाघ्राणचक्षुलक्षणानि इंद्रियाणि येषां ते चतुरिंद्रियाः । मक्षिका-भ्रमर-दंश-मशक-कंसारिका शलभ-पतंग-वृश्चिकप्रमुखा ज्ञातव्याः। तथा पंचेंद्रियाः पंच शरीर-रसना-घाण-चक्षुः कर्णलक्षणानि इंद्रियाणि येषां ते पंचेंद्रियाः। ते च द्विधा संज्ञिनः असंज्ञिनश्च । तत्र असंज्ञिनः संमूर्छिमाः खंजन-दर्दुर-मत्स्य सर्प-प्रमुखाः बांतपित्तश्लेष्मशुक्रमूत्ररुधिरादिप्रभवजंतवश्च मनोरहिता ज्ञेयाः। संज्ञिनःपुनर्गर्भजाः ते च तिर्यंच जलचराः खेचराः स्थलचरास्तथा मनुष्या देवा नारकाः सर्वेप्येते संझिनो मनः संयुक्ताः। एवं एकेंद्रिया द्विभेदाः। द्वींद्रियाः त्रींद्रिया चतुरिद्रियाः, पंचेंद्रिया द्विभेदाः। इत्येते सप्तभेदा जीवाः सर्वेऽपि पर्याप्ता अपर्याप्ताश्च भवन्ति । ततश्चतुर्दशभेदा जीवाः संजाताः। तत्र पर्याप्तास्ते कथ्यन्ते ये स्वकीयपर्याप्तिभिः सर्वाभिः संपूर्णा भवंति । पर्याप्तयः पुनः षड् भवंति । आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इंद्रियपर्याप्तिः ३ उच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनः पर्याप्तिः । ६ पर्याप्तिशब्देन शक्तिरुच्यते । तत्र एकेंद्रियाणां आहार- शरीर-इंद्रियउच्छ्वास-निःश्वास लक्षणाश्चतस्त्रः पर्याप्तयो भवंति । द्वींद्रियत्रींद्रियाणां आहार-शरीर-इंद्रिय-उच्छ्वास निश्वास-भाषालक्षणाः पंचपर्याप्तयः स्युः। पंचेंद्रियाणां पुनः आहार-शरीर-इंद्रिय-उच्छ्वासनिःश्वास-भाषा-मनोलक्षणाः षट्पर्याप्तयः स्युः। एवं
॥२॥
For Private and Personal Use Only