SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir लकमक सह संबद्धानि कर्माणि क्रियते येन स बंधः तस्य तत्त्व-स्वरूपं बंधतत्त्वं । नवमं मोक्षतत्त्वं सकलकर्मणां सर्वथा क्षयलक्षणो मोक्षः तस्य तत्त्वं मोक्षतत्वं । च शब्द एवार्थे । एतान्येव नव तत्वानि यथासिद्धांतोक्तप्रकारेण ज्ञेयानि न तु कुतीर्थिक कल्पितानि । कुत्रापि पुण्यपापयोबंधे अंतर्भावात् सप्तैव तत्वानि उक्तानि । एवं नवानां तत्त्वानां नामान्युक्तानि । इत्येकगाथा व्याख्याता ॥ अथ नवतत्त्वानां भेदसंख्यानं कथयति चउदस चउदस बाया-लीसा बासीअ हुंति बायाला । सत्तावन्नं बारस, चउ नव भेया कमेणेसिं ॥२॥ ___ चउइति-एतेषां नवानां तत्त्वानां क्रमेण एते भेदा ज्ञातव्याः। यथा चतुर्दश भेदा जीवानां । चतुर्दश भेदा अजीवानां । द्विचत्वारिंशभेदाः पुण्यप्रकृतीनां । द्वथशीतिभेदाः पापप्रकृतीनाम् । द्विचत्वारिंशद्देदा आश्रवद्वाराणां । सप्तपंचाशद्भेदाः संवरस्य । द्वादशभेदा निर्जरायाः । चत्वारो भेदा बंधस्य । नवभेदा मोक्षस्य । एवं नवानां तत्त्वानां भेदसंख्या २७६ निगद्य अथ एतेषां भेदानां क्रमेण विवरणं वक्ति-- एगविह दुविह तिविहा, चउविहा पंचछविहा जीवा । चेयण तस ईयरेहि, वेय गइ करण काएहि ॥३॥ एगिदिय सुहुमियरा, सन्नियर पणिदिआ य स बि ति चउ। अपज्जत्ता पज्जत्ता चउदस जियठाणा ॥४॥ (अव०) एगविहेति एगिदियेति-इह अत्र जिनशासने चतुर्दश जीवस्थानानि ज्ञातव्यानि । यथा एकेंद्रियाः For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy