________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
म. ते
अव०
॥
१
॥
|| जीवाऽजीवा पुण्णं पावासवसंवरो अ निज्जरणा । बंधो मुक्खो अ तहा, नवतत्ता हुंति नायब्वा ॥१॥
(अव०) जयति श्रीमहावीरः श्रेयः श्रीश्रेणिसंश्रयः । सम्यग् जीवादितत्त्वानामवयोधनिबंधनम् ॥१॥
नवतत्त्वस्य परिमितपरिमाणस्य प्रभूततरार्थस्य अतीवगंभीरार्थस्य मुग्धजनाववोधाय विचारः किंचिदुच्यते । तथाहि Kा जीवेति-एतानि नवानां तत्त्वानां नामान्युक्तानि । तथाहि-जीवतत्त्वं १ अजीवतत्त्वं २ पुण्यतत्त्वं ३ पापतत्त्वं ४ आश्रवतत्त्वं ५
संवरतत्त्वं ६ निर्जरातत्त्वं ७ बंधतत्त्वं ८ मोक्षतत्त्वं ९ तत्त्वमिति कोऽर्थः स तत्त्वं स्वरूपमिति यावत् । तत्र प्रथमं जीवतचं । जीवः कीदृश उच्यते । जीवति दशविधान् प्राणान् धारयतीति जीवः । दशविधप्राणाश्च कीदृशाः । “पंचेंद्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता स्तेषां वियोजीकरणं तु हिंसा ॥१॥" ___ एवंविधदशप्राणधारको जीवः तस्य स्वरूपं यद्विचायते तज्जीवतत्त्वं । द्वितीयं अजीवतत्त्वं जीवादन्योऽजीवः प्राणचेतनारहित इतिभावः तस्य तचं स्वरूपं यत्तदजीवतत्वम् । तृतीयं पुण्यतचं पुण्यं कीदृशं यत् शुभप्रकृत्यात्मकं कर्म जीवानां सौरव्यं ददाति तत्पुण्यं तस्य तत्वं पुण्यतत्वं । चतुर्थं पापतत्त्वं पापं किमुच्यते यद् अशुभप्रकृत्यात्मकं कर्म जीवानां दुःखं ददाति तत्पापं तस्य तत्त्वं पापतत्वम् । पंचम आश्रवतत्त्वं आवंति आगच्छति यस्मात्पापानि जीवेषु स आश्रवः तस्य तचं स्वरूपं आश्रवतत्त्वं । षष्ठं संवरतत्वं संबियंते निवार्यते कर्माणि यस्मात्स संवरः तस्य तत्त्वं स्वरूपं संवरतत्त्वं । सप्तमं निर्जरातत्त्वं नितरां अतिशयेन जीर्यते क्षीयं ते कर्माणि यया सा निर्जरा द्वादशधा तपोरूपा तस्यास्तत्त्वं स्वरूपं निर्जरातत्त्वं । अष्टमं बंधतत्वं बध्यते जीवेन
For Private and Personal Use Only