SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shut Kailassagarsuri Gyanmandir RECAS यावच्चन्द्रदिवाकरौ सुरसारित् खे तारका यावता, तावन्नदतु पठयमानमिमकं शास्त्रं हि विद्वज्जनैः ॥२॥ स्वस्तिश्रीर्जयताद्वीरो नाम्ना तपसां श्रिया । वर्धमानतया ख्यातो, वर्धमानो दिने दिने ॥ ३ ॥ तच्छिष्या एकादश, गौतममुख्या गणाधिपा आसन् । आद्यो गुणिषु गणे यो, पञ्चम(०णे च पश्चमक) स्तेषु च सुधर्मा ॥४॥ तस्पट्टानुक्रमतो रत्नत्रयधारिणोऽम्बुधीयन्ते । भूरिगुणाः सूरिंगणास्तावद्यावच्च चन्द्रकुलम् ॥ ५ ॥ जिनशासनसुरशिखरिणि, चन्द्रकुलं नन्दनायते तत्र । खरतरगणेन सुगणेन, कल्पतरूयितमभिमतार्थे ॥ ६ ॥ तस्मिन् प्रद्योतन इव, सूरिरु (थो) द्योतनो गुणनिधानम् । पटुक्रमेण जिनभद्रसरिराष्टदशोऽथासीत् ।। ७ ॥ तच्छिष्योऽजनि वाचकेषु विदुरो भानुप्रभः सुप्रभः, चत्वारोऽन्तिपदो बभूवुरमलप्रज्ञाश्रयं तस्य तु । आद्यो वाचकसेनधीनपटुधीयों मन्त्रविद्या ग्रणी-रन्योऽभून्महिमाग्रलाभसहितः पुण्यश्रिया संहितः ॥ ८॥ सुगुणगणिस्तृतीयः सरलमतिः कुशलसिंहनामान्यः । विख्यातचन्द्रवर्धनगणिरप्यासीत्क्रमेण ततः ॥ ९ ॥ तेषां शिष्यत्रितयं समजनि जगतीतले विदितविद्यम् । श्रीमेघनन्दनदयानन्दनजयविजयनामानः ॥ १० ॥ श्रेष्ठश्रेष्टिकुलोत्तंसा, वाचका मेघनन्दनाः । वृत्तिं जीवविचारस्याकापीद्रत्नस्तदन्तिपत् ॥ ११ ॥ वृत्तिं जीवविचारस्य, कुर्वता यन्मयाऽजितम् । पुण्यं तेनैष भव्यौधः, शिवसौख्यमथाश्नुताम् ॥ १२ ॥ नृपविक्रमवत्सरतः, प्राणकायेन्दु (१६१०) शरदि नभसि सोमे । कृष्णाष्टम्यश्विन्यां, वृत्तिर्घल्लूस्थितेन कृता ॥ १३ ॥ A For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy