________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जी. वि०
सटीक.
तत्र कर्तपदं शान्तिमरिः उपदिशति-शिष्टे प्रशस्तेऽनुपमे जिनधर्मे । क्रियासंबन्धस्तथैव योज्य इत्यक्षरार्थः ॥ ५० ॥ ___अथ सूत्रं निगमयन्नाहएसो जीववियारो, संखेवरुईण जागणाहेऊ । संखित्तो उद्धरिओ, रुंदाओ सुयसमुद्दाओ ॥ ५१ ॥
व्याख्या-जीवानां विचारो जीवविचारः त्रसस्थावरै केन्द्रियादिविचारवान् । रूपरूपिणोरभेदाद् ग्रन्थनामापि जीवविचार | इति समर्थितं । एष आत्मनाऽविनाभावेनेति । ततः श्रीशान्तिमरिणाऽयं संक्षेपरुचीनामर्थात्स्वल्पमतीनां प्राणिविशेष जिज्ञासायै संक्षिप्यानुग्रहबुद्धया रुद्राद्-अनवगाह विस्तारात् श्रुतसमुद्रादुद्धतः । इयता न स्वमनीषिकया, किंतु परम्परया जिनैरुपदिष्टं श्रुतं महार्थ तस्मादित्यक्षरार्थः ॥५१॥ ____ अत्र अद्यावधि मुद्रितेषु पुस्तकादिषु 'रुदाओ' इति पाठो दृश्यते, परं प्राचोनादर्शेषु 'रुंदाओ' इति पाठो लभ्यते स एव पाठः अर्थदृष्ट्या समीचीनः प्रतिभाति इति ध्येयम् ।
॥ अथ प्रशस्तिः ॥ बुद्धर्मन्दतयाऽथ बालिशत या वाचालताया वशा-दालस्यादनुपासनान्निनगुरोस्तत्वानभिज्ञेन ह (हा)। उत्सूत्रं यदवाचि किश्चिदधिकं श्रीभागवत्या गिर-स्तत्तत्वार्थविशारदैः करुणया ग्रन्थेऽत्र शोध्य बुधैः ॥१॥ यावन्मेरुमहीधरः क्षितितले तस्मिम् वनं नन्दनं, यावच्छेषफणी दधाति धरणीं सप्ताव(प्तर्ष) यो यावता ।
AURABAR
॥३०॥
Far Private and Personal Use Only