SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir जी. वि० शा सटीक. ॥२८॥ RECASIA वान्यक्रमेण प्राणस्वरूपं व्यनक्ति, यत उक्त-"पञ्चेन्द्रियाणि त्रिविध बलं च, उच्छ्वासनिःश्वासमथान्यदायुः प्राणा दशैते भगवद्भिरुक्ता एषां वियोगीकरणं तु हिंसा ॥१॥” इति गाथाद्वयार्थः॥४२-४३॥ सर्वजीवप्राणद्वारमभिधाय क्रमप्राप्तमपि योनिद्वारमुपरिष्टावक्ष्यति, ततोऽत्र संसारे स्वरूपग्राहकजीवस्वभावं व्याकुर्वनाहएवं अणोसारे, संसारे सायरम्म भीमम्मि ! पत्तो अगंतखुत्तो, जीवहिं अपत्तधम्मे हि ॥ ४४ ॥ व्याख्या-एवमिति प्राणवियोगलक्षणेन अणोरपारेऽप्राप्तपर्यन्ते दुस्तरत्वात्संसारे सागरे इवशब्दलोपात्समुद्रोपमेयत्वेनभीमे-रौद्रे जन्मजरामरणरोगशोकादिभिः कारणभूतैः प्राप्तमुपलक्षणान्मरणं । “अणंतखुत्तो ति" अनन्तशोऽनन्तवारान् । कैः ? -जीवैः । कीदृशैः ?-अप्राप्तजिनधर्मेरिति ।। उक्तं च-"कोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं तु शतशः प्राप्तं, न तु धर्मः कदाचन ॥ १ ॥ इति गाथार्थः ॥ ४४ ॥ ___ क्रमप्राप्तं योनिद्वारमभिधित्सुराह-- तह चउरासी लक्खा संखा जोणीण होइ जीवाणं । पुढवाईण चउण्हं, पत्तेयं सत्त सत्तेव ॥ ४५ ॥ व्याख्या-इह योनिरिति कः शब्दार्थः ? पूर्व तदुच्यते-यु मिश्रणे,युवन्ति तैजसकार्मणशरीरवन्तः सन्तः श्रीदारिकादिशरीरप्रायोग्यपुदलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिरुत्पत्तिस्थानं, औणादिको निः प्रत्ययः । तथेति गणनाद्वारप्रकारेण चतुरशीतिलक्षा योनीनां । विभक्तिव्यत्ययात्तृतीयार्थे प्रथमा । सङ्घयया । केषां ? जीवानां । द्वितीयार्थे सप्तम्यर्थे वा षष्ठी । इति सामा BHARAॐॐॐॐ ॥२८॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy