________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailassagersun Gyanmandir
जी. वि०
सटीक
॥२४॥
FASHAHESHARIRSS
भियते । तानि खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनछद्मस्थो यदतीव सूक्ष्मपुदलद्रव्यं चक्षुषा पश्यति तदसङ्ख्येयभागमात्राणि, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्घयेयगुणानि, बादरपर्याप्तपृथ्वीकायिकशरीरतुल्यानीति वृद्धाः । ततः प्रतिसमय एकैकखण्डापहारेण सों निर्लेपनाकालः सङ्ख्येयवर्षकोटीप्रमाणः सूक्ष्ममुद्धारपल्योपम तद्दश कीटीकोटयः सूक्ष्ममुद्धारसागरोपमं । आभ्यां च सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपसमुद्राश्च मीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते पूर्वोक्तपल्यादेकैकवालाग्रापहारेण सकलो निर्लेपनाकालः सायेयवर्षमानो बादरमद्धापल्योपमं । तद्दश कोटीकोटथो चादरमद्धासागरोपमं । तथैव वर्षशते वर्षशते एकैकवालाग्रासङ्ख्येयतमखण्डापहारेण निर्लेपनाकालोऽसङ्ख्यातवर्ष कोटीमानः सूक्ष्ममद्धापल्योपमं । तद्दश कोटीकोटयः सूक्ष्ममद्धासागरोपमं । तद्दश कोटीकोटयोऽवसर्पिणी । एतावत्प्रमाणैव चोत्सर्पिणी । उत्सपिण्योऽनन्ताः पुदलपरावर्तः । अनन्ताः पुदलपरावर्ता अतीतादा, तथैवानागताद्धा । अत्रातीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समयावलिकादिभिरनवरतं क्षीयमाण या अप्यनागताद्धाया अक्षयात्, एतच्च मतान्तरं। तथा च भगवतीविवरणे वृद्धगाथा"अहवा पडच्च कालं, न सबभधाण होइ बुच्छित्तो । जं तीयाण गयाओ, अद्धाओ दोवि तुल्लाओ ॥१॥" अयमभिप्रायःयथाऽनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरिति व्यक्तं समत्वमिति । तथाऽऽभ्यां च सूक्ष्माद्धापल्योपमसागरोपमाभ्यां सुरनारकनरतिरश्चां कर्मस्थितिः कायस्थितिः भवस्थितिश्च मीयते । तथा प्राग्वत्पल्यो वालाग्रस्पृष्टनभःप्रदेशानां प्रतिसमयमकैकापहारेण निर्लेपनाकालोऽसङ्कथेयोत्सर्पिणीमानो वादरं क्षेत्रपल्योपमं । तद्दश कोटीकोटथो बादरं क्षेत्रसागरोपमं ।
१ अथवा प्रतीत्य काल न सर्वभयानां भवति व्युन्छित्तिः । यदतोतानागते अद्धे द्वे अपि तुल्ये ॥ १॥
ABPBABASAAR
॥२४॥
For Private and Personal Use Only