SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shit Kailassagarsur Gyanmandir SCEGLI ASSESSE सदियः, मनुजायुश्चतुर्थाशायुषस्तुरगवेसरादयः । अष्टांशायुषोऽजोरणकादयः । पञ्चमांशायुषो गोमहिप्युण्ट्रखरादयः । दशमांशायुषश्च वृकचित्रकादयः । इत्यादि तिरश्चां सर्वारकेषु सादृश्यं दृश्यते । उत्कृष्टस्थितेरधो मध्यमजघन्यस्थिती अबसेये । अत्र षष्टयर्थे प्रथमा । तथेह पल्योपमसागरोपमयोः स्वरूप सूत्रेऽनुक्तमपि प्रदश्यते, तद्यथा-तत्र धान्यपल्यवत्पल्यस्तेनोपमा यस्य काळप्रमाणस्य तत्पल्योपमं । तस्त्रिधा-उद्धारपल्योपम, अद्धापल्योपम, क्षेत्रपल्यापमं च । तत्र वालग्राणां तत्खण्डानां वा प्रतिसमयमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं १। अद्धा:-काल:, स च कालं प्रस्तावाद्वालग्राणां वत्खण्डानां वा प्रत्येक वर्षशतलक्षणः)णं तत्प्रधानमद्धापल्योपमं २ । क्षेत्रमाकाशप्रदेशरूप तत्प्रधान क्षेत्रपल्योपमं ३। तत्पल्योपमं पुनरेकैकं द्विधा-बादरं सूक्ष्मं च । तत्रायामविस्ताराभ्यामवगाहेनोत्सेधागुलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच्च परिधिना किश्चिन्यूनषइभागाधिकयोजनत्रयमानः पल्यो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तानि प्रचयविशेषाभिविडतरमाकर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिर्न दहति वायु पहरति जलं न कोथयति । यदुक्तम्-" तेणं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो सलिल कुत्थिज्जा" इत्यादि । ततः किमित्याह-"तत्तो समए समए, इकिक्के अवहियम्मि जो कालोत्ति" ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति, तावत्कालः समयसमयमानो बादरमुद्धारपल्योपमो भवति । एतेषां च दश कोटी कोटयो बादरमुद्धारसागरोपम, महत्त्वात्सागरेण समुद्रेणोपमा यस्येतिकृत्वा, | बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणं । न पुनरेतत्प्ररूपणेऽन्यद्विशिष्टं फलमस्तीति । एवं चादरेवद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं । एकैकं वालाग्रं असङ्कथेयानि खण्डानि कृत्वा पूर्ववत्पल्यो REGAAAA For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy