SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir FHSHA वार सरीरा से एगे बायरतेउसरीरे, असंखिज्जाणं बायरतेउकाइया जावइया सरीरा से एगे बायरआउसरीरे, असंखिज्जाणं वायरआउकाइयाणं जावइया सरीरा से एगे वायरपुढविसरीरे एवंमहाल र णं गोयमा ! पुढविसरीरे पण्णत्ते" । अत्र " अणंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा" इति यावद्ग्रहणादसङ्ख्यातानि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ख्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात् । सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्मवायवगाहनाया असत्यातगुणत्वेन चागमेऽभिधानात् । यदुक्तमन्यत्राप्यागमे-"गोयमा ! सव्वत्थोवा सुहुमनिगोयस्स अपज्जत्तगस्स जहणिया ओगाहणा असंखिजगुणा जाव बायर पुढविअपज्जत्त जहणिया असंखिज्जगुणा पत्तेयसरीरबायरवणस्सइकाइयस्स वायरनिगोयस्स य एएसिणं अपजत्तगाणं जहणिया ओगाहणा दोण्ण वि तुलाऽसंखेज्जगुणा" इत्यादि । प्रत्येकवनस्पतीनां तु समुद्रादिगतपद्मनालादीनां शरीरं किश्चिदधिक योजनसहस्रं । ननु शरीरस्य मानमुत्सेधाङ्गुलेन समुद्रहदादीनां तु प्रमाणाङ्गुलेन, ततः समुद्रादीनां योजनसहस्रावगाहनात्तद्भतपअनालादीनामुत्सेधा मुलापेक्षयाऽत्यन्तं दैथ्य स्यादत आह विशेषणवत्यां-"जोयणसहस्समइ (हिय) वणस्सईदेहमाणमुक्किटुं । तं च १गौतम सर्वस्तोका सूक्ष्मनिगोदस्य अपर्याप्तकस्य जघन्या अवगाहना असंख्येयगुणा यावत् बादरपृथ्व्यापर्याप्तानां जघन्या असंख्येयगुणा प्रत्येकशरीर बादरवनस्पतिकायिकस्य बादरनिगोदस्य च एतेषां अपर्याप्तानां जघन्या अवगाहना द्वयोरपि तुल्याऽसंख्येयगुणा । २ योजनसहस्रमधिकं वनस्पतेर्देहमानमुत्कृष्टम् । तच्च किल समुद्रगतजलरुइनालं भवति भूम्ना ॥ १॥ उत्सेधाङ्गुलेन तदभवति प्रमाणागुलेन च समुद्रः । परस्परतो वे अपि कथमविरोधिनी भवतः ! ॥२॥ पृथ्वीपरिणामानि तानि तु श्रीनिवासपद्मवत् । गोतीर्थेषु बनस्पतिपरिणामानि च भवेयुरपि ।। ३॥ यत्रोत्सेधागुलतः सहस्रमवशेषेषु च जलेषु । वल्लीलतादयोऽपि च सहस्रमायामतो भवन्ति ॥ ४॥ %34343 For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy