SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जी. वि० ॥१९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खाउगणी आऊ - पुढवीनिगोय अणुक्रमसो । पत्तेयवणसरीरं, अहियं जोयणसहस्सं तु ॥२॥ द्विधा वनस्पतिः - प्रत्येकः साधारणश्च । साधारण निगोदोऽनन्तकायिक इत्येकार्थाः । तत्र प्रत्येको बादर एव, पृथिव्यप्तेजोवायुनिगोदास्तु सूक्ष्मा वादराश्च । तत्राद्यन्तयोनिगोदपृथिव्योःसूक्ष्मविशेषणात्तदन्तर्वर्तिनां वाय्वग्निजलानामपि सूक्ष्माणां ग्रहणादयमर्थः सूक्ष्मनिगोदशरीरम गुलस्यासङ्ख्यो भागोऽङ्गुलासङ्ख्यातभागमित्यर्थः १ । तदसङ्ख्यातगुण मे कंसूक्ष्मवायुकायशरीरं २ । ततोऽसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरं ३ । ततोऽसङ्ख्यातगुणमेकं सूक्ष्ममष्कायिकशरीरं ४ । ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मपृथ्वीकायिकशरीरं ५ । ततोऽप्यसङ्ख्यातगुणमेकं बादरवायुशरीरं ६ । ततोऽप्यसङ्ख्यातगुणमेकं वादराग्निशरीरं ७। ततोऽप्यसङ्ख्यातगुणमेकं वादराप्कायशरीरं ८ । ततोऽप्यसङ्घयातगुणमेकं बादरपृथ्वी कायिकशरीरं ९ । तस्मादसङ्ख्यातगुणमेकं बादर निगोदशरीरं १० । स्वस्थाने तु सर्वाण्यप्यगुलासङ्कयेयभागमात्राणीति । तथा च भगवत्यामेकोनविंशतितमे शतके तृतीयोदेशके - "के' महालए णं भंते ! पुढविसरीरे पण्णत्ते ? गोयमा ! अनंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे, असंखेज्जाणं सुहुमवाउकाइयाणं सरीरा से एगे मुहुमतउसरीरे, असंखेज्जाणं सुहुमते उकाइयाणं जावइया सरीरा से एगे पुढवीसरीरे, असंखिज्जाणं सुहुमपुढविकाइयाणं जावइया १ कियन्महत् पृथ्वीशरीरं भदन्त ! प्रज्ञप्तम् गौतम ! अनन्तानां सूक्ष्मवनस्पतिकायिकानां यावच्छशरीरं तावत् एकं सूक्ष्मवायुशरीरं, असंख्यानां सूक्ष्मवायुकायिकानां शरीराणि तावत् एकं सूक्ष्मतेज शरीरं, असंख्येयानां सूक्ष्मतेजस्कायिकानां यावन्ति शरीराणि तावदेकं पृथ्वीशरीरं, असंख्येयानां सूक्ष्मपृथ्वी कायिकानां यावन्ति शरीराणि तावत् बादराछरीरं, असंख्येयानां बादराकायिकानां यावन्ति शरीराणि तावदेकं बादरपृथ्वीशरीरं, इयन्महत् गौतम ! पृथ्वीशरीरं प्रज्ञप्तम् । For Private and Personal Use Only सटीक. ॥१९॥
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy