SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailassagersun Gyanmandir SASARA एएसि जीवाणं, सरीरमाउं ठिई सकायम्मि । पाणा जोणिपमाणं, जेसिं जं अस्थि तं भणिमो ॥२६॥ व्याख्या-एतेषां पूर्वव्यावर्णितस्वरूपाणामेकेन्द्रियादीनां जीवानां येषां यावत्प्रमाणं शरीरं । प्रमाणशब्दः मर्वत्राभिसम्बध्यते, ततो येषां यजघन्योत्कृष्टायुःप्रमाणं । तथा येपां यावती स्वकायस्थितिः, किमुच्यते ? यथैकेन्द्रियाः पृथ्व्यादयो मृत्वा पुनः पृथ्व्यादिषु कियत्काल मुत्पद्यन्ते सा स्वकायस्थितिः, तस्याः प्रमाणं । तथा प्राणा:-जीवधारणलक्षणा येषां जीवानां दशसु प्राणेषु ( मध्ये) यावन्तः प्राणास्तत्प्रमाणं । तथा चतुरशीतिलक्षप्रमाणा योनयो येषु जीवेषु यावत्प्रमाणाः । अस्थीरपत्र प्राकृतत्वादेकत्वद्विस्वबहुत्वे । न कश्चिद्विशेषः, यद्वाऽस्तिशब्दोऽव्ययेषु सर्ववचनवाची वर्तते, अतोऽत्र न कश्चिद्दोषः । ततो यच्छब्देनापेक्षितमर्थ तच्छब्देनाह-"तं भणिमो" तद्भणाम इति गाथार्थः ॥ २६॥ पूर्वोक्तकथनद्वारेणैकेन्द्रियादीनां शरीरद्वारं व्याकुर्वन्नाह-- अंगुलअसंखभागो, सरीरमेगिदियाण सव्वेसि । जोयणसहस्समहियं, नवरं पत्तेयस्क्वाणं ।। २७ ॥ व्याख्या-शीर्यत इति शरीरं । ततोऽगुलासयभागं सर्वेषामप्येकेन्द्रिया (णां) दीनां शरीरप्रमाणं । नवरं विशेषश्चायप्रत्येकवनस्पतीनां योजनसहस्रमधिकं शरीरमिति । तथेह सूत्र पृथ्व्यादीनां शरीरप्रमाणे सामान्यतयोक्तेऽपि विशेपो दर्श्यते । उक्तं च सङ्ग्रहिण्यां-"अंगुलअसंखभागो, सुहुमनिगोओ असंखगुण वाऊ । तो अगणि तओ आऊ, तत्तो सुहुमा भवे पुढबी ॥१॥ तो बाय १ भमुलासंख्यभागः सूक्ष्मनिगोदोऽसंख्यगुणो वायुः । ततोऽग्निस्तत आपस्ततः मूक्ष्मा पृथ्वी । १ । ततो बादरवावग्न्यपृथ्वीनिगोदा अनुक्रमशः । प्रत्येकवनस्पतिशरीरं अधिक योजनसहस्रं तु ।। P ESAMAU RSHASHRSHASHASHASHREE to For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy