SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabarth.org Acharya Shri Kailassagarsun Gyanmandir S AR जी. वि० ॥१८॥ ततो नियमाद् गुरुसमीपे भवन्ति, गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता लिङ्गं प्रयच्छति गुरु समीपे वा तत्प्रतिपद्यन्ते । यदि चैकाकिविहारेच्छावन्तस्तदैकाकिन एव विहरन्ति, अन्यथा गच्छ एवासते इति । प्रत्येकबुद्धानां पुनर्लिङ्ग देवतैव ददाति,लिङ्गवजिता वा भवन्ति १२ । तथैकैकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धाः १३। एकसमये द्वयादीनामष्टशतानांसेधनादनेकसिद्धाः । तत्राने कसमयसिद्धानां प्ररूपणार्था गाथा-"वत्तीसा अडयाला, सट्ठी बावत्तरी य बोदव्या । चुलसीई छपाउई, दुरहियमहुत्तरसयं च ॥१॥" एतद्विवरण-यदै कस्मिन्समये एकादिर्वा उत्कर्षेण द्वात्रिंशसिध्यन्ति तदा द्वितीयसमयेऽपि द्वात्रिंशत्, एवं नैरन्तर्येणाष्टौ समयान यावद्द्वात्रिंशसिध्यन्ति, तत ऊर्ध्वमवश्यमेशन्तरं भवति । एवं यदा पुनस्रथस्त्रिंशत आरभ्याष्टचत्वारिंशदन्ता एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान सिध्यन्ति, ततोऽवश्यमेवान्तरं भवति । एवंयदैकोनपश्चाशतमादि कृत्वा यावत् षष्टिः एकन समयेन सिध्यन्ति तदा निरन्तरं पद समयान सिध्यन्ति, तदुपरि अन्तरं समयादि भवति, एवमन्यत्रापि योज्यं । यावदष्टशतमेकसमयेन सिध्यन्ति तदाऽवश्यमेव समयाद्यन्तरं भवति इति १४ ॥ तथा बुद्धा आचार्यास्तोंधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः १५।। इत्युक्तास्तीर्थकरत्वादिभेदैः सिद्धानां पञ्चदशभेदाः ननु तीर्थकरसिद्धातीर्थकरसिद्ध रूपभेदद्वयेऽवशेषाः सिद्धभेदाः सर्वेऽप्यन्तर्भवन्ति, तत्किमर्थ शेषभेदोपादानमुच्यते ? सत्यं अन्तर्भवन्ति, परं न विवक्षितभेदद्वयोपादानमात्रात् शेष भेदपरिज्ञानं भवति विशेषपरिज्ञानार्थ चष शास्त्रारम्भप्रयासोऽतः शेषभेदोपानामिति । इत्येते जीवविकल्पाः सांसारिका असांसारिका एकेन्द्रियादयो वा संक्षेपणेति-तेषां जीवानामसङ्ख्यातानन्तत्वान्नामजातिकथनद्वारेण समाख्याता-भणिता इति गाथार्थः ॥२५॥ अथैकेन्द्रियादिजीवानां शरीरायुःस्वकायस्थितिप्राणयोनि प्रमाणानि प्रकटयन्नाह HRISHRA ॥१८॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy