SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir जी. वि. सटीक. ॥१२॥ AAAAACARE खरकाण्ड, चतुरशीतिद्वितीयं पङ्कबहुलकाण्डं, अशीतिस्तृतीयं जलबहुलकाण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथ्वीस्वरूपाः। केवलं शर्कराप्रभा शर्कराबहुला इत्यादिनामानुसारतोऽन्वर्था भारनीयाः यावत्तमस्तमसः प्रकृष्टतमसः तमतमसो वाऽत्यन्ततमसः प्रभा बाहुल्यं यस्यां सा तमस्तमःप्रभा तमतमःप्रभा वेति । उक्तं च-"तत्थ सहस्सा सोलस, खरकंडं पंकबहुलकंडं तु । चुलसीइ सहस्साई, असीइ जलबहुलकंडं तु ॥१॥ एवं असीइ लक्खा, खरकंडाईहि घम्मपुढवीए। सेसा पुढविसरूवा, पुढवीओ हुंति बाहुल्ला ॥२॥" ततो रत्नप्रभा १ शर्कराप्रभा २ वालुकाप्रभा ३ पकप्रभा ४ धूमप्रभा ५ तमःप्रभा ६ तमस्तम प्रभा ७। आसां पृथ्वीनामेव नामानि । तथा चासां निरन्वया नामसंज्ञाः प्रोच्यन्ते-'धम्मा १ वंसा २ सेला ३, अंजण ४ रिट्ठा ५ मघा य ६ माघबई ७ । नामेहिं पुढवीओ, छत्ताईछत्तसंठाणा ॥१॥" सुगमैव । नवरं सप्तापि पृथिव्यः समुदिताश्छत्रमतिक्रम्य छत्रं तत्संस्थानाः। यथा युपरि च्छत्रं लघु,तस्याधो महत्, ततोऽप्यधो महत्तरं, एवमेवाधोऽधो महाविस्ताराः। अथासां पिण्डवाहुल्यान्तरादिवक्तव्यता प्रज्ञापनादिशास्त्रेभ्योऽवसेया । पुनरेतासु नारकाणां गतिस्थितिअवगाहना (वेदना) दि प्रस्तुतमपि ग्रन्थकृता नोक्तं, मयाऽपि ग्रन्थगौरवभयानात्र लिख्यते । इत्युक्तो नारकपदस्यार्थः ।। १९ ॥ अथ तिरश्चां नामार्थजात्योर्विशेष व्याकुर्वनाह-जल. पूर्व तिर्यक् छब्दार्थः, स चाय-तिर्यगश्चन्तीति यदि वा तिरोहिताः स्वकर्मवशवर्तिनः सर्वासु गतिषु गच्छन्त्युत्पद्यन्त इति तिर्यश्चः, त्रिधा जल १ तत्र षोडश सहस्राणि खरकाण्डं पङ्कबहुल काण्डं तु । चतुरशीतिः सहस्राणि अशीतिलबहुलकाण्डं तु ॥१॥ एवमशीत्याधिक लक्षं खर काण्डादिभिः धर्मपृथिव्याः । शेषाः पृथ्वोस्वरूपाः पृथ्यो भवन्ति बाहुल्यात् ॥२॥ . २ घर्मा वंशा शैला अञ्जना रिष्ठा मघा च माधवती । नामभिः पृथिव्य छत्रातिच्छत्रसंस्थानाः ॥ १॥ ॥१२॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy