SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir छ ABASAHASRAEROPSARA | अपि द्वीन्द्रिया ग्राह्याः। सूत्रत्वाच्छन्दोभङ्गभयाद् द्वीन्द्रियपदे विभक्तिलोपः, अथवा कर्मधारयो वा । तथेहोभयत्रापि आदिशब्दग्रहणेन | | जलजाः स्थलजाः (श्च) भेदभिन्नत्वेन ज्ञेया इति गाथार्थः ॥ १५ ॥ इति द्वीन्द्रियजीवविशेषानुक्त्वा कतिचित्रीन्द्रियजीवनामानि गाथाद्वयेनाह-- 5 गोमी मंकुणजूआ, पिपीलि उद्देहिया य मक्कोडा । इल्लिय घयमिल्लीओ, सावयगोकीडजाईओ॥१६॥ गद्दहयचोरकीडा, गोमयकीडा य धनकीडा य । कुंथुगु (गो) वालिय इलिया, तेइंदिय इंदगोवाई ॥१७॥ ___व्याख्या-गोमीति गुल्मिः कर्णशृगाली । मत्कुणयूके प्रसिद्धे, उपलक्षणाल्लिक्षा अपि। पिपीलिकाः कीटिकाः। आसां जातिग्रहणादन्या अपि जातिविशेषेण लघुवृद्धभावेन ग्राह्याः । उपदेहिका वाल्मीक्यः। चः समुच्चये। मत्कोटका प्रतीताः। इल्लिका धान्यादिघू. त्पन्नाः । “घयमिल्लि ति" घृतेलिकाः, प्राकृतत्वान्मकारागमः । “सावयेति" लोकभाषया सावाः, ते मनुष्याणामशुभोदर्कतः प्रागभाविनि कष्टे शरीरकेशेषूत्पद्यन्ते । तथा गोकीटकाः प्रतीता एव । जातिग्रहणेन सर्वतिरश्चां कर्णाद्यवयवेपूत्पन्नाश्च जम्बुकचिच्चडादयो ग्राह्याः। तथा गर्दभका लोकविदिताः। चौरकीटा जीवविशेषाः । गोमयकीटाछगणोत्पन्नाः । धान्यकीटा घुणत्वेन प्रसिद्धाः। चकाराद्वातेरिकादयोऽपि मन्तव्याः । कुन्थुः प्रतीतः । गुवाली जीवविशेषः । ईलिका लट्टाः । इन्द्रगोपा ये आषाढ | प्रथमवृष्टौ जीवा उत्पद्यन्ते, द्रष्टुः शिरोधृता ये वमनहर्तारो लोके मामलात्वेन प्रतीताः । इति त्रीन्द्रिया नामतः केऽप्युक्ताः । इहापि विभक्तिलोपश्छन्दस्त्वादिति गाथाद्वयार्थः ॥ १६-१७ ॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy