________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandir
MARCLOCALCALCCALCHUREGA
| सर्वत्राञ्जनभृतसमुद्रकवद्विश्वं व्याप्य स्थितास्ते सूक्ष्मजीवास्तहि मनुष्यादीनां धावनवल्गनशयनासनादिभिरुपघातो भविष्यति ।।
गुरुराह-न तेषां मनुष्यादिभिरुपघातः स्यादतिसूक्ष्मत्वात् , तीक्ष्णखगधारया छिद्यमानेऽपि वज्रघातेनाप्युपधातो न स्यात् , वं Bा वह्नयादिभ्योऽपि नोपघातः। अतो ये व्यापारैर्न विनश्यन्ति ते सूक्ष्माः, इह तेषां कार्यानुपयोगिताद् बादरैरेव कार्यकारिता, ये | चादरनामकर्मोदयवशाचर्मचक्षुषां गोचराः स्युरिति । तथा पुनः सूक्ष्माणामुत्पत्तिस्थानमभिधायायुःस्वरूपं दर्शयति-नियमादन्तर्मुह
र्तायुपः । कोऽन्तर्मुहर्त्तः ? नवसमयेभ्य उपरि समयोनं घटीद्वयं, आगमे नवसङ्ग्यायाः पृथक्त्वसंज्ञा, तदन्तर्मुहुर्तमायुरिति । बादराणामायुः पुरो वक्ष्यति । अथ प्रसङ्गात्पश्चानां स्थावराणां संस्थानविशेष दर्शयति । तथा (च) सङ्ग्रहिण्या "मुरा समा हुंडिया सेसत्ति" वचनात् सर्वावयवेष्वलक्षणं हुण्डं तत्संस्थानवन्तः। हुण्डत्वेऽपि विशेषं निर्दिशति पृथिव्यप्तेजोवायुवनस्पतीनां । तथा चागमे-"पुढबाइणं किं संठाणं पण्णता ? गोयमा ! पुढवी मसरसंठाणा पण्णत्ता, आउथिबुगबिंदुसंठाणा पण्णता, ते ऊ सूईकलावसंठाणा पण्णत्ता, वाऊ पडागासंठाणा पण्णता, वणस्सई णाणासंठाणा पण्णता, बेइंदिया तेइंदिया चउरिंदिया समुच्छिमपंचिंदियतिरिया हुंड
१ सुराः सम चतुरस्राः हुण्डसंस्थानाः शेषाः (उक्तशेषाः) .
२ पृथ्व्यादीनां भदन्त ! किं संस्थानं प्रज्ञप्तम् ? गौतम ! पृथ्वी मसूरसंस्थाना प्रज्ञप्ताः, आपः स्तिबु कबिन्दुसंस्थानाः प्रज्ञप्ताः, तेजः & सूचीकला पसंस्थान प्रज्ञप्त, वायुः पताकासंस्थानः प्रज्ञप्तः, वनस्पतिर्नानासंस्थानः प्रज्ञप्तः । द्वीन्द्रियास्त्रीन्द्रिय श्चतुरिन्द्रियाः संमूछिमपञ्चन्द्रियतिर्यश्चः हुण्डसंस्थानाः प्रज्ञप्ताः, गर्भयुक्रान्ताः षाविध संस्थानाः, संमुर्छिममनुष्या हुण्डसंस्थानसंस्थिताः।
For Private and Personal Use Only