SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir AAIबकक ता लक्षणा मध्ये यस्य तदहीरकं । तथा छित्वा गृहाद्यानीतं शुष्काद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गडूच्यादिवत्पुनरपि यत्प्ररोहति | तच्छिन्नरुहं । तदेतैर्लक्षणैः साधारणं शरीरं ज्ञेयं तदनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्त प्रत्येकशरीरमिति । चः पुनरर्थे । तुरेवार्थे । तथा पुनरन्यदप्यनन्तकायलक्षणमिदं शास्त्रे नोपदर्शितं तथाप्युच्यते, तद्यथा-"चक्कं व भज्जमाणस्स, जस्स गंठी हविज्ज चुनघणो । तं पुढ विसरिसभेयं, अणंतजीवं वियाणाहि ॥१॥"इति । प्रकटावेति गाथाक्षरार्थः ॥ १२ ॥ अथ प्रत्येकवनस्पतिलक्षणं शरीरे क्व केषु स्थानेषु तज्जीवास्तत्प्रश्चेित्येतत्प्र)कटयन्नाह-- एग सरीरे एगो, जीवो जेसि च ते उ पत्तेया। फलफुल्लछल्लिकट्ठा, मूला पत्ताणि बीयाणि ॥१३॥ व्याख्या--एकस्मिन् शरोरे, विभक्तिलोपे, एको जीवो यासां वनस्पतीनां, प्राकृतत्वात्पुंस्त्वं', ताः प्रत्येकवनस्पतयः इति सामान्यलक्षणं । विशेषलक्षणं व्यनक्ति । चः समुच्चये । तुरेवार्थे । यासां सप्तम स्थानेषु पृथक पृथक् जीवा भवन्ति, तानीमानि स्थानानि, विभक्तिव्यत्ययात्सप्तम्याः स्थाने प्रथमा, तत्र फलेषु पुष्पेषु त्वचि काष्ठे मूले पत्रेषु बीजेषु सर्वत्र जीवसद्भावादायं क्रमः 21 फलबीजयोः पञ्चानामन्तर्गतत्वेनेत्युपदर्शितः यदुत्पत्तिस्तयोरनुयायिनी। तथा सप्तस्वेषु स्थानेषु एकजीवत्वमित्यर्थः । इहसूत्रकुताप्रत्येकवनस्पतीनां नाममात्रमुपदर्शितं, विशेषो न कश्चिदर्शितः तथापीह नाममात्रविभेदो दर्यते, तद्यथा-"क्खा १ गुच्छा २ गुम्मा १ चक्रवद्भज्यमानस्य यस्य प्रन्धिर्भवेच्चूर्णधनः । तत् पृथिवीसदृशभेदमनन्तजीवं विजानीहि ॥ १॥ २ चिन्त्यम् समासाभावात् स्त्रीवाभावाच्च. ३ वृक्षा गुच्छा गुल्मा लखाश्च वल्लयश्च पवेगाश्चैत्र । तृणानि वनलता हरितानि औषध्यः जलरुहः कुहणाश्च बोद्धव्याः ॥ NEAAAAAAAAAP७ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy