________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सटीक
जी. वि. ॥८॥
A
स्फोटानि प्रागुक्तस्वरूपाणि, विरूदानि अङ्करितानि द्विदलधान्यानि, दक्वात्थुलः शाकविशेषः स च प्रथमोदत एव, शूकरसंज्ञितो वल्लः स एवानन्तकायिको न तु धान्यविशेषः, पल्यतः शाकभेदः, " कोमलंबिलिय ति" अबद्ध स्थिका आम्लिका, आलुकपिण्डालुको कन्दविशेषौ, इत्येतेऽनन्तकायिका यत्नेन परिहार्याः श्रावकैबुद्धिमद्भिः, पुनस्तेष्वनन्तजीवघाततया कथमपि विराधना न विधेया तेषामिति गाथाद्वयार्थः ॥९-१०॥
अथानन्तकाया द्वात्रिंशदधिका वेति संदेहनिरासार्थ सूत्रकद्वाथयाह8. इच्चाइणो अणेगे, हवंति भेया अणंतकायाणं । तेसिं परिजाणणत्थं, लक्खणमेयं सुए भणियं ॥ ११ ॥
- व्याख्या--इत्यादयः-सूत्रोक्ता एव न, किं तु अनेकेऽनन्तकायिकानां भेदा भवन्ति । सिद्धान्ते द्वात्रिंशदेव तकि ? उच्यतेआर्यदेशप्रसिद्धत्वाल्लोकानां कार्योपयोगनियुक्ताः अन्ये त्वप्रसिद्धत्वादनुपयोगित्वाच्च सङ्ख्यायां नान्तर्भाविताः । अतस्तेषां परिज्ञानार्थमेभ्योऽधिकानामेतल्लक्षणं श्रुते भणितं-व्यावर्णितमिति गाथार्थः ॥ ११ ॥ ___अथ तदेव लक्षणं व्याचिख्यासुराह-- गूढसिरसंधिपब्वं, समभंगमहीरुहं (रंग) च छिन्नरुहं । साहारणं सरीरं, तविवरीयं तु पत्तेयं ॥ १२ ॥
व्याख्या-"गूढसिरेत्यादि" गूढानि--प्रकटवृत्त्याजायमानानि सिरास्सन्धयः पर्वाणि च यस्य पत्रकाण्डनालशाखादेः तत्तथा । यस्य भज्यमानस्य शाखादेखोटथमानस्य पत्रादेः समोऽदन्तुरः छेदो भवति तत्समभङ्गं । तथा छिद्यमानस्य न विद्यन्ते हीरकास्तन्तु
PRASHASABHA
॥
८
॥
%
For Private and Personal Use Only