SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersun Gyanmandir SA PI "सब्बोऽवि किसलओ खलु, उग्गममाणो अणतओ भणिओ । सो चेव विवद्धृतो, होइ परित्तो अणंतो वा ॥१॥” इति पनका -पञ्चवर्णा फुल्लिः । सेवालं प्रतीतं । भूमिस्कोटानि ग्रीष्मवर्षाकालभावी नि छत्राकृतीनि लोकप्रतीतानि वा । “अद्दयतिय ति" आर्द्रकत्रिकं आर्द्रका-शृङ्गबेरः, आर्द्रहरिद्रा, कच्चूरकास्तिक्तद्रव्यविशेषः । गर्जराणि प्रतीतानि । तथा मुस्तादीनां चतुर्णा स्वरूपं द्वात्रिंशदन न्त कायव्याख्यायां व्याकरिष्यते । तथा सर्व कोमलं फलं अनिबद्धास्थिकं तिन्दुकाम्रादीनां । "गूढसिराईत्ति" गूढानि सिराणि अप्रकटका सन्धीनि गजपर्णपत्राणीवाविज्ञातसंन्धीनि पत्राणियेषांतानि । बहुव्रीहाविवलोपेसिद्धिः। एतदुक्तलक्षणं, न तुद्वात्रिंशदनन्तकायेषु सङ्ख्या पूरणामिति । "थोहरित्ति" स्नुबादीनां चतसृणामौषधोनां छिन्नरुहाणां च स्वरूपं द्वात्रिंशदनन्तकायिकषु व्याख्यानयिष्यति। इह हि ग्रन्थकृता समग्रतया द्वात्रिंशदनन्तकाया नोक्ताः सूचनात्सूत्रमिति कृत्वा, तथाप्युच्यन्ते, तद्यथा-'सया हु कंदजाई" इत्यादि गाथापञ्चकं सूत्रतो न लिख्यते विदितत्वाद्, अर्थाद्वित्रियते-हुशब्दोऽवधारणे, सर्वैवकन्दजातिरनन्तकायिका । तथा सूरणकन्दोऽर्शोघ्नः, बजोऽपि कन्दविशेषः, आकत्रिकं पूर्व व्यावर्णितं ज्ञातव्यं, शतावरी विरालिके वल्लो भेदौ, कुमारी मांसलप्रणालाकारपत्रा, थोहरी स्नुहीतरुः, गहूच्यपि वल्ली प्रतीतैव, लशुनः कन्दविदेषः, "वंसकरेल्ल त्ति" कोमलानि नववंशावयवरूपाणि करेल्लकतया प्रतीतानि, गर्जर: प्रागुक्तो रक्तकन्दः, लवणको वनस्पतिविशेषः येन दग्धेन सर्जिका स्यात्, लोढः पद्मिनीकन्दः, गिरिकर्णिका वल्ली विशेषः तस्याः किशलयानि पत्राण्यप्यनन्तकायिकानि, खीरिंशुकथेगावपि कन्दो, मुस्ता वराहप्रिया तस्या आद्रकन्दः, तथा कवणवृक्षस्य वक्, न त्वन्येऽवयवाः, खिल्लूडः कन्दविशेषः, अथवाऽ(चा)मृतवल्ली तन्तुकाकाररूपा, तथा मूलको विदित एव, भूमिरुहाणि भूमि १ सर्वोऽपि किसलयः खाद्छन् अनन्तको भणितः । स एवं विवर्धमानो भदति प्रत्येकोऽनन्तो वा ॥१॥ CTRESCR5464k For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy