________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
जी, वि०
सटीक
BARDASHAILOSE
व्याख्या--वनस्पतिजीवाः श्रुते आगमे द्विधा भणिताः-उक्ता इति सम्बन्धः । तत्रके साधारणः, अन्ये प्रत्येकाः। “वणस- | इत्ति" छन्दोभाभयाद्वित्वं न । इह पूर्व तावत्साधारणस्वरूपं व्याख्यानयति "जेसिति" येषां-वनस्पतिकायजीवानामनन्तानामेका तनुः-शरीरं ते साधारणाः, अन्ये प्रत्येकाः । तथा चोक्तं श्रीप्रज्ञापनायां-"समगं वक्ताणं समगं तेसिं सरीरनिष्फत्ती । समपमाहारगहणं समगं उस्तासनिस्सासा ॥१।। एगस्स उजं गहणं बहुणं साहारणाण तं चेव । जं बहुआणं गहणं समासओ तं पि एगस्स ॥२॥ साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एय । ३ ॥" आसां सुगमार्थत्वान्न व्याख्यायाते, भावार्थः स्वयमेव भावनीयः । तथा ते साधारणा द्विधा-एके सूक्ष्मसाधारणा एके बादरसाधारणाः, सिद्धान्ते साधारणस्य निगोद इत्यपि संज्ञाऽस्ति । इह तावत्पूर्व सूक्ष्मनिगोदस्वरूपं दर्शयति, यदुक्तं सग्रहिण्या-"गोलो य असंखिज्जा असंखनिगोयगोल
ओ भणिओ । इक्किकाम्म निगोए अणंतजीवा मुणेयव्वा ॥१॥" सुगमैव । यथागमसम्प्रदाय किश्चिदुच्यते-इह हि द्विधा जीवाः| सांव्यवहारिका असांव्यवहारिकाश्च । तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते, ते पृथिव्यादिविविधव्यवहारयोगासांव्यवहारिकाः । ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ( ते ) तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः । अथ १ समकं व्युत्क्रामतां समकं तेषां शरीरनिष्पत्तिः । समकमाहारग्रहणं समकमुच्छावसनिःश्वासौ ॥१॥ एकस्य तु यग्रहणं बहूनां साधारणानां तदेव । यदबहुकानां ग्रहणं समा सतस्तदपि एकस्य ।। २ ।। साधारण आहारः साधारणमानप्राणग्रहणं च । साधारणजीवानां साधारणलक्षणमेतत ॥ ३ ॥ २ गोलाश्चाऽसंख्याता असंख्यनिगोदको गोलको भणितः ।। एकै कस्मिन्निगोदे अन-ता जीवा ज्ञातव्याः ॥ ४ ॥
AAAAAAABAR
॥६
For Private and Personal Use Only