SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org SACROSACROSSARDAR PI "कणग ति" गगनात्तारकवत्कणरूपः पतन्ननिर्दश्यते । विद्युत् प्रतीता । शुद्धाग्निनिरिन्धनो वहिवंशघर्षणादेरुत्पन्नः । उपलक्षणा सूर्यकान्त्या (न्ता) देरुत्पन्नश्च । इत्यादयोऽनुक्ता अप्यग्निकायभेदा निपुणबुध्ध्या ज्ञातव्या इति गाथाक्षरार्थः ॥ ६॥ प्रक्रमाद्वायुकायभेदान् विवृण्वन्नाहउभामगउक्कलिया मंडलिमुहसुद्धगुंजवाया य । घणतणुवायाईया, भेया खलु वाउकायस्म ॥ ७॥ व्याख्या-उभ्रामकवातः, उत्कालिकाबातः, मण्डलिकावातः, मुखवातः, शुद्धवातः, गुञ्जवातादीनां स्वरूपनाम्नैव बुध्ध्या ज्ञेयं । अथवाऽयं विशेषः, तद्यथा-उद्भ्रामकवातोऽपरनामा संवर्तकः यो बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपति । उत्कलिकावातो यः स्थित्वा स्थित्वा वाति । मंडलिकाबातो वातोलीरूपः। मुखबातः प्रतीत एव । शुद्धवात उत्कलिकादिविकलो मन्दानिलः । गुञ्जबातो यो गुञ्जन् वाति । अथ घनवाततनुवातयोः स्वरूपं किश्चिदुच्यते-रत्नप्रभादिपृथ्वीनां सौधर्मादिदेवलोकानां यदाधारभूतौ घनवाततनुवातौ । तयोरावस्त्यानघृतरूपः, अन्यस्तु तापितघृतवददृदरूपः । तौ द्वावपि असङ्ख्यातयोजनप्रमाणपिण्डौ । इत्यादयो वायुकायभेदा ज्ञेया नामतः, विस्तरार्थोऽन्यशास्त्रेभ्योऽबसेय इति गाथार्थः ॥७॥ प्रस्तावादथ वनस्पतिकायभेदान् कथयन्नाह -- साहारणपत्तेया, वणसइजीवा दुहा सुए भणिया । जेसिमणंताणं तणू , एगा साहारणा ते उ ।। ८ ॥ REAAAAAAEE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy