________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
A
जी. वि०
सटीक
| चेति । मृत्तिका प्रतीता एवं । पापाण नायोऽने प्रकाराः । सौवीराजन श्वेतकृष्णभेदभित्रमञ्जन । लवणं प्रतीतं, 'उपलक्षणास्सिन्धवसमुद्रलवणादि । एवम नेकप्रकारैः पृथ्वीकायभेदा इत्यादय उक्ता अनुक्ता अपि स्वबुध्ध्या ज्ञेया इति गाथाद्वयार्थः ॥३-४॥
इति पृथ्वीकायभेदानुक्वाऽप्कायभेदान् कथयन्नाह - का भोमंतरिक्खमुदगं, ओसाहिमकरगहरितगूमहिया । हुँति घणोदहिमाई, भेया णेगा य आउस्स ॥ ५ ॥
___व्याख्या-भौम कूपादिशिराजलं । आन्तरिक्षं मेघज पयः । ओस ति" अवश्यायस्नेहनलं । हिमं तुषारं । करको घनो पलः । " हरितणू ति" स्नेहकाले दर्भाग्रेषु जलविन्दवः । “महिय ति" महिका धमरी, प्राकृतत्वादीर्घः । “घणोदहि ति" पृथ्व्या आधारभूतमसङ्ख्यातयोजनप्रमाणं पयःपिण्डरूपं पृथ्वीपर्यन्तं तद् घनोदधिः अप्काय, इत्यादयोऽनेकेऽपकायभेदाः स्युरिति गाथाऽक्षरार्थः ॥॥ अथापकायभेदानुक्त्वाऽग्निकायभेदानाहइंगालजालमुम्मुर-उक्कासणिकणगविज्जुमाईया । अगणिजियाणं भेया, नायव्वा निउणबुद्धीए ॥६॥
व्याख्या-अङ्गारो ज्वालारहितोऽङ्गारः । ज्वालाऽग्निसम्बद्धाचिविशेषः । मर्मरा विरलाग्निकणभस्म लोके कारीपोऽग्निरिति प्रसिद्धः। उल्का गगनाग्निरुत्पातकारण व्योम्नि विविधाकारवती रेखारूपा । " असणि ति" आकाशात्पतिता भुवि वहिकणाः ।
१ आदिशब्दात् स्यात् परं बहुत्वविवक्षयैवम् २ हरितणू इत्यत्र.
AAAAAAAPK
For Private and Personal Use Only