________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पज्जत्तापज हुति छन्भेया। पंचिंदियाण चउरो,बाबीसमिगिदिए संपि[याणंपि]॥१॥पुढविदगभगणि वाऊ,बायरसुहुमपजत्तभपज्जत्ता। चउरो वि चउरभेया, वणस्सइ पुण होइ छन्भेया॥२॥ पंचिंदियाण चउरो, बावी साहारणपुवओ य छन्भेओ। पत्तेयं पज्जत्ते, बत्तीसं जीवभेयाई ॥३॥ व्याख्या-द्वित्रिचतुरिन्द्रियाणां पर्याप्तापर्याप्तभेदात् षट् । पञ्चेन्द्रियाणां संज्यसंज्ञिपर्याप्तभेदाच्चत्वारः । बादरपृथ्व्यप्तेजोवायुप्रत्येकवनस्पतीनां पर्याप्तापर्याप्तभेदादश । सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतीनां पर्याप्तापर्याप्तभेदाइश । साधारणवनस्पतिरपि द्विधा पर्याप्तापर्याप्तभेदात् । मिलिताः सर्वेऽपि द्वात्रिंशभेदाः। तथाण्डजादयोऽप्यष्टौ भेदा उक्ताः सन्ति । ते प्रतीता एव । चेतनादयः षट् भेदास्तेऽपि विदिताः गौरवभयानात्र लिख्यन्ते । इह सामान्यतया पृथ्व्यादीनां नामान्युक्तानीति गाथार्थः ॥२॥
अथ केषां पृथ्वीकायतेति तद्विज्ञानाय सूत्रकृदाथाद्वयेन तद्विशेषानाहफलिहमणिरयणविद्दमहिंगुलहरियालमणसिलरसिंदा । कणगाइधाउसेढी, वण्णियअरणेट्टयपलेवा ॥ ३ ॥ अब्भयतूरीऊसं, मट्टियपाहाणजाइओ णेगा । सोवीरंजणलुणाइ, पुढविमेयाइ इच्चाइ ॥ ४ ॥ . ___ व्याख्या-"फलिह ति" स्फटिकनामग्रहणेन अंकतैलिकादयो ग्राह्याः, मणयश्चन्द्रकान्तादयः, रत्नानि वज्रकर्केतनादीनि, यद्वा मणयः समुद्रोद्भवाः रत्नानि (च) खनीसमुद्भवानि, विद्रुमः प्रवालः, हिङ्गुलहरितालमनःशिलादयः प्रतीता एव, रसेन्द्रः पारदः, एषां द्वन्द्वः । तथा कनकादयः सप्त धातवः, ते चामी-चामीकररूप्यताम्रत्रपुखर्परसीसकलोहानि, एषां धातूनां खनीदलानि पृथ्वीकायः । “सेढि ति" खटिका । वर्णिका रक्तमृत्तिका । अरणेट्टकी देशप्रसिद्धः। पलेवकः पाषाणविशेषः । अभ्रकाणि पश्चवर्णानि । तूरी वस्त्राणां पाशहेतुर्मत्तिकाविशेषः । “ओस ति" क्षारभूमिर्यत्राङ्करोत्पत्तिर्न जायते । द्वन्द्वसमासानपुंसकत्वं चैकत्वं
PRABADASHAGRAA5%
CCE
For Private and Personal Use Only