________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
AAAAAAAAAA
चउत्तीस वियड्ढेसं, विज्जुप्पहनिसद नीलवंतेसु । तह मालवंत सुरगिरि, नव नव कूडाइं पत्तेयं ॥१४॥
चउतीसे ति। चतुर्विंशति वैसाढयेषु विजयभरतैरावत विच्छेदकेषु दीर्घवैताढयेषु तथा विद्युत्प्रभश्च निपधश्च नीलवांश्च ते तथोक्तास्तेषु, तथेति सादृश्ये, माल्यवांश्च सुरगिरिश्च माल्यवत् सुरगिरीस्तयोस्तथोक्तयोः प्राकृतशैल्याद् विभक्तिलोपः एतेषु प्रत्येकमेकोनचत्वारिंशति पर्वतेषु नव नवकूटानि भवन्ति ॥१४॥ तथाहिमसिहरिसु इक्कारस, इय इगसट्ठी गिरिसु कूडाणं। एगत्ते सव्वधणं, सयचउरो सत्तसट्ठी य ॥१५॥
हिमेति-पदैकदेशेऽपि पदसमुदायोपचारात् हिमवान् , यथा भीमो भीमसेनश्च, हिमवांश्च शिखरी च हिमवच्छिखरिणौ तयोस्तथोक्तयोरिह प्राकृतत्वात् सूत्रे बहुवचनम् । यत उक्तम्-दुवयणे बहुवयणमिति। प्रत्येकमेकादशैकादशकूटानि भवन्ति । समस्तकूटगिरीणां कूटानां च सर्वाग्रहमाह-इय इगसट्ठीत्यादि इति वक्ष्यमाणप्रकारेण एकेनार्गला पष्टिकपष्टिस्तस्यामेकपष्टौ गिरिषु आधारभूतेषु पर्वतेषु एकत्वे सर्वाङ्के सर्वधनं निखिलसमुदायः सप्तपष्टयर्गलानि चत्वारि शतानि ४६७ कूटानां भवन्तीति शेषः ॥१५॥ अथ सर्वकूट संख्यानयनायकरणमाहचउसत्त अट्ठ नवगे,गारसकूडे हिं गुणह जह संखं । सोलस दुदु गुणयालं, दुवे य सगसहि सय चउरो॥१६॥
चउसेत्ति-चतुः सप्ताष्टनवकैकादशाभिः कृटैर्यथासङ्ख्यं यथाक्रम यथोपन्यासमिति यावत् गुणयतः गुणकारप्रवृत्तान् कुरुत हे गणितज्ञा इति गम्यते । कानित्याह-सोलसेत्यादि । षोडश द्वौ द्वौ एकोनचत्वारिंशतं द्वौ चेति । तद्यथा
For Private and Personal Use Only