________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shut Kailassagarsuri Gyanmandir
ज० टीका
॥१५॥
पोडशानां चतुर्भिर्गुणने. चतुः पष्टिः द्वयोस्तु सप्तभिर्गुणने चतुर्दश तथा द्वयोरेवाऽष्टभिर्हनने षोडश, एकोनचत्वारिंशतो नवभिरभ्यासे सैक पश्चाशानि त्रीणि शतानि, द्वयोः पुनरेकादशानां गुणकारे जाता द्वाविंशतिरिति एतावता साङ्केन का सङ्ख्या भवतीत्याह-सगसवेत्यादि सप्तषष्ठयधिकानि चत्वारि शतानि कुटानां भवन्तीति गाथार्थः ॥१६॥
इदानीं गिरिशिरः स्थितानि कूटान्यभिधाय भूमिस्थ(स्तमिच्छ)कूट संख्यानमाहचउतीसं विजएसुं, उसह कूडा अट्ठ मेरु जंबुम्मि । अट्ठ य देवकुराए, हरिकूड हरिस्सहे सट्ठी ॥१७॥
चउतीति । ऋषभकूटानि प्रागुक्तस्थानानि विजयेषु जिनाधुत्तम पुरुषोत्पत्तिक्षेत्रेषु चतुस्त्रिंशत् भवन्ति । तथा मेरो मन्दरगिरौ जम्ब्बामनादृतदेवनिवासवृक्षेषु प्रत्येकमष्टावष्टौ। चःसमुच्चये । देवकुराविति तदाधेये शाल्मलिवृक्षेऽष्टावष्टसञ्जयानि तथाहि मेरुकूटानि शीताशीतोदोभयकूलवर्तीनि दिग्गजनामानि उत्तरकुरौ जम्बूवृक्षसत्कवनमध्ये प्राप्रपश्चितान्यष्टौ कूटानि, एवमेव देवकुरौ शाल्मलिवनमध्येऽष्टावेव हरिकूटहरिस्सहकूटे विद्युत्प्रभमाल्यवतोर्वक्षस्कारयोरुपरिस्थिते सामस्त्येन किं जातमित्याह-सट्ठीति । पष्टिस्तिस्त्रो विंशतय इति गाथार्थः। इइ यत् हरिकूटहरिस्सही भूमिकूटानां मध्ये निबद्धौ तन्न घटते तयोर्वक्षस्कारयोरुपरि भावात् । तदुक्तम्
'विज्जुप्पहडरिकूडो हरिस्सहो मालवंतवक्खारे' इति । तथैतादृशाभिधानं भूमिकूटमपरं जम्बूद्वीपमध्ये न दृश्यते बृहत्क्षेत्रसमासाद्यनुसारतः ये तु वक्षस्कारशिरःस्थे
PRESEARSHAN
॥१५॥
For Private and Personal Use Only