SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir मेकमधस्तादुद्धरितानि पञ्चदशशतानि पञ्चदशोत्तराणि धनुषां १५१५ सर्वाङ्कमीलने जातानि सप्तकोटीशतानि नवतिः कोटयः षट्पञ्चाशल्लक्षाणि चतुर्नवतिः सहस्राणि सार्द्धशताधकानि समचतुरस्राणां योजनप्रमाणखण्डानां तथैकं गव्यूतं पञ्चदशोत्तराणि पञ्चधनुःशतानि षष्टिरञ्जुलानि च यो०७९०५६९४१५० गाउ १ धनुः १५१५ अंगुल ६० इति सर्वजम्बूद्वीपप गणितपदं अपश्चितं तत्प्रपश्चनेन समर्थितं द्वितीय योजनद्वारम् ॥९-१०॥ सम्प्रति क्रमायातं तृतीय क्षेत्रद्वार गाथायाः प्रथमपादेनाहभरहाइ सत्तवासा वियइढ चउचउरतीसवट्टियरे। सोलसवक्खारगिरी दो चित्तविचित्त दो जमगा॥११॥18 भरहाइ त्ति । वर्षाणि क्षेत्राणि मनुष्यनिवासस्थानानीत्यर्थः। तानि कियत्संख्यानि किं नामानि च भवन्ति ?-इत्याहसत्ति ति सप्त संख्यानि नामतस्तु भरतादीनि आदिशब्दादेमवतहरिवर्ष महाविदेह रम्यकैरण्यवतैरवतानां ग्रहः तथा वर्षशब्दो नपुंसकलिङ्गःपुंस्त्वे प्रयुक्तोऽपि प्राकृतत्वान्न दोषायलिङ्गं व्यभिचार्यपीति वचनात् अमूनि च सर्वक्षेत्राणि स्वाधिष्ठातृदैवतसमाननामानि तथाहि भरताधिपतियों यो देव उत्पद्यते तं तं तत्सामानिकाद्यादेवा भरत इत्याहयन्ते ततस्तन्नाम्ना तदधिष्ठितं क्षेत्रमपि भरतमिति कथ्यते । तथा चागमः-से केणटेणं भंते । भरहे वासे २ इति गोयमा ! भरहे देवे महड्डीए महज्जुए जाव पलिओBI वमटिइए परिवसइ से एएणडेणं गोयमा ! एवं वुच्चइ-भरहे वासे भरहे वासे इति एवं हेमवतादिषपि भावनीयमिति सक्षेपार्थः। विस्तरार्थस्त्वयं सर्वद्वीपसमुद्राणां मध्ये परिपूर्णचन्द्रमण्डलसंस्थानः सर्वतो लक्षयोजनमानो जम्बूद्वीपोऽस्ति । यदागमः-से णं For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy