________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org
पंच योजनशतानि स योजनैकोनविंशषड्भागानि तेन भाजिते भागे हृते सति यल्लभ्यते तत्समानि खण्डानि भवन्ति । तद्यथाजम्बूद्वीप विष्कम्भो योजनलक्षं एक एकस्तदग्रे पञ्चशून्यानि प्रियन्ते १००००० एष भाज्यराशिः भरतमानं तु प्राक्कथितं यो० ५२६ क०६ । अयं च भागहारस्ततो लब्धं नवत्युत्तरशतं १९० एतानि सर्वजम्बूद्वीपखण्डानि । पुनर्विधानान्तरेण खण्डानयनायोपायनाहअहविग खंडे भरहे दो हिमवंते य हेमवई चउरो । अट्ठ महा हिमवंते सोलसखंडाई हरिखासे ||४||
अहवेत्यादि । अथवा प्रकारान्तरेण भरतप्रमाणमुक्तस्त्ररूपं नवत्यधिकेन शतेन गुणितं जम्बूद्वीपविष्कम्भमानं लक्षयोजनरूपं भवति । तथाहि भरतमानं यो० ५२६ क० ६ । एष मूलराशिः नवत्युत्तर शतं च १९० गुणकारः ततो गुणिते लब्धं योजनानि लक्षं १००००० । एतत् पुनर्जम्बूद्वीपमानमिति ।
धनवर्षाणि आश्रित्य तृतीयं प्रकारमाह – अहवेत्ति -
बत्तीसं पुण निसढे मिलिया तेसट्ठि बीयपासेऽवि । चउसट्ठी उ विदेहे तिरासिपिंडे उ नउयसगं ||५|| बत्तीसमिति | अहवेत विकल्पान्तरे भरते भरत नाम्नि क्षेत्रे एकमेकसंख्याकं खंडं भवतीत्यादि । शेषोऽध्याहार्थ्यः खण्डप्रमाणत्वात् तस्य यदुक्तम्
पंचसए छन्वी से छच्चकला वित्थडं भरहवासम् इति । तथा दो हिमवंत त्ति हिमवति वर्षधरे द्वे द्विसंख्ये खण्डे भवतः । यतो भरतक्षेत्रात् पराणि वर्षधरवर्षाणि क्रमेण द्विगुण द्विगुण विस्ताराणि । तदुक्तम्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
66