________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
द, प्र. ॥१६॥
ASSICAEROEN
पालनहेतोः प्रवृत्तिनिवृत्ती विधत्ते स हेतूपवादोपदेशेन युक्तः। सर्वे स्थावराः संज्ञारहिता भवन्ति । स्थावरेषु संज्ञा न भवन्तीत्यर्थः ॥३२॥
केषु केषु काः संज्ञा भवन्ति ? ता आह-. मणुआण दीहकालिय, दिट्ठीवाउवएमिया केवि। पज्ज पण तिरिमणुअचिय, चउविहदेवेसु गच्छंति ॥३३॥
(अव०) मनुजानां दीर्घकालिकी संज्ञा । दृष्टिवादोपदेशिकी क्षायोपशमिकादिसम्यक्त्वसहिताः केऽपि । पञ्चेन्द्रियतिर्यंचोऽप्येत संज्ञायुक्ता भवन्ति । केचित् परमल्पत्यान्न विवक्षिताः, द्वाविंशं गतिद्वारं त्रयोविंशमागतिद्वारं चाह । पर्याप्ताः पञ्चेन्द्रियाश्च तिर्यचो मनुनाश्चतुर्विध देवेषु गच्छन्ति । न शेपजीवाः । इति देवानामागति द्वारम् ॥३३॥ अथ देवानां गतिद्वारमाह---
टीका---मणुआणेति मनुष्यानां सामान्यतः दीर्घकालिकोसंज्ञा भवति, विशेषस्तु केऽपि मनुजाः दृष्टिवादोपदेशिकाः स्युः। यस्तु सम्यग्दृष्टिहें तोर्यथाशक्ति रागद्वेषादिरिपून् पराभवति जयतीत्यर्थः, स दृष्टिवादोपदेशिक्या सम्यग्दृष्टिरेवेत्यर्थः। केऽपि पञ्चेन्द्रियतिर्यश्चोऽपि एतत्संज्ञायुक्ता अपि, परमल्पत्वान्न विवक्षिताः। सुखावबोधाय स्वामितया संज्ञात्रयं योजयति, यथाद्वीन्द्रियादीनां अर्थात् सम्मूच्छिमपञ्चेन्द्रियाणां च हेतूपदेशिकीसंज्ञा, गर्भजतिर्थग्नरसुरनारकाणां दीर्घकालिकीसंज्ञा, छद्मस्थसम्यग्दृशां मनुष्याणां केपाश्चित् तिरश्चां च दृष्टिवादोपदेशिकी संज्ञा, तु पुनः मनुष्याणां दीर्घकालिकीसंज्ञा स्यात् , अतो मनुष्येषु द्वे || दृष्टी भवत इत्यर्थः । पृथिव्यायेकेन्द्रियाणां बल्लयारोहणाद्यभिप्रायरूपा ओघसंज्ञैवेत्यर्थः । संज्ञाद्वार प्ररूपितं । अथ द्वाविंशतितमं
॥१६॥
For Private and Personal Use Only