________________
Si Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
AAI
|न्तर्वर्तिजीवानां पञ्चदिक्कः । लोकनिष्कूटस्थानां त्रिचतुर्दिक्कः । एकविंशं संज्ञाद्वारमाह । अथ संज्ञात्रिकं भणिष्यामि ॥३१॥
टीका-विगले पञ्चेति विकलानां द्वित्रिचतुरिन्द्रियाणामाहारशरीरेन्द्रियश्वासोच्छ्वासभाषाभेदाव पञ्च पर्याप्तयो भवन्ति । पर्याप्तिद्वारं व्याख्यातं । विंशतितममाहारद्वारं विवृणोनि । छद्दिसित्ति० पट्सु दिक्षु सर्वेषां संसारिणां जीवानां गत आहारो भवति । षड्भ्यो दिग्भ्यो जीवा आहारं गृह्णन्ति इत्यर्थः । लोकान्ते लोकप्रान्ते च पुनः लोककोणे लोकाखे ये जीवास्संति तेषां जीवानां पञ्चसु अथवा चतसपु तिमषु यथा संभवमाहारो भवति, पश्चकादिपदेषु भजना कोऽर्थः ? केचन जीवाः पञ्चसु दिक्ष गतान् पुद्गलान केचन चतसृषु दिक्षु गतान् पुद्गलान केचन तिसृषु दिक्षु गतान् पुद्गलान् आहारयन्ति इति भावः । किमाहारद्वारं व्याख्यात । अथैकविंशतितमं संज्ञाद्वारं व्याख्यानयति । अहेति० अथ संज्ञात्रिकं भणिष्यामि भणामीत्यर्थः ॥३१॥ चउविहसुरतिरिएसुं, निरएसु य दीहकालिगी सन्ना। विगले हेउवएसा सन्नारहिया थिरा सव्वे ॥३२॥
(अव०) चतुर्विधसुरतिर्यक्षु निरयेषु च दीर्घकालिकी संज्ञा । दीर्घोऽतीतानागतवर्त्तमानविषयः कालो ज्ञेयो यस्या इति व्युत्पत्तेः, | विकले हेतूपदेशिकी संज्ञा । किश्चिन्मनोज्ञानसहिता वर्तमानविषया संज्ञेत्यर्थः । विशिष्टैतत्संज्ञात्रयरहिताः सर्वे स्थिरा ज्ञेयाः॥३२॥
टीका-चउविहेति. चतुर्विधसुरेषु तिर्यक्षु नैरयिकेषु च दीर्घकालिकीसंज्ञा भवति । अत्र चकारः समुच्चयार्थः, भवतीत्य ध्याहारः । यः पुरुषः दीर्घमपि कालं विषयमतीतमर्थ स्मरति भविष्यच्च वस्तु चिन्तयति । कथं नु नाम मया कर्तव्यमिति स दीर्घकालिक्युपदेशेन युक्तः। विकलेषु विकलेन्द्रियेषु हेतूपदेशिकी संज्ञा स्यात् । यस्तु संचिन्त्येष्टानिष्टेषु छायातपादिवस्तुषु स्वदेह
4JALA
For Private and Personal Use Only