________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
द. प्र. ॥१०॥
सटीक. अव०
विकलानां त्रयो वेदनाकषायमरणरूपाः समुदाता भवन्तीत्यर्थः । संज्ञिनां ते सप्त समुद्धाता भवन्ति । तुः पुनरर्थे । एव निश्चयार्थे । चः समुच्चयार्थे ॥ १७ ॥ पण गम्भतिरिसुरेसु, नारयवाउसु चउर तिय सेसे। विगल दुदिट्ठी थावर, मिच्छत्ति सेस तिय दिट्ठी ॥१८॥
(अब०) गर्भजतिर्यक्सुरयोः पञ्च, नारकवाययोश्चत्वारः । शेषे स्थावरे विकले च त्रयः समुद्घाताः सर्वत्रानुक्रमेण ।९।। दशमं दृष्टिद्वारमाह-विकलेषु दृष्टिद्विकं सम्यवत्वमिथ्यात्वरूपं, स्थावरा मिथ्यात्विनः । शेषास्तिर्यक्सुरनारकस्त्रिदृष्टयः सम्यक्मिथ्यात्वमिश्र सहिता भवन्ति ।१०। ।। १८ ॥ अथैकादशदर्शनद्वारमाह
टीका-पणगब्भेति गर्जजतिर्यक्षु भवनपत्यादिर्वैमानिकान्तेषु देवषु चाद्याः पञ्च समुद्घाता भवन्ति । तत्राहारककेवलिसमु| दाताभावात् । नारयेति नैरयिकवायवोराद्याश्चत्वारः समुद्घाता भवन्ति । तियसेसे इति०, शेषेषु त्रयः समुद्धाता भवन्ति । चकरात् चतुर्पु पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु चाद्यास्त्रयः समुद्घाता भवन्ति । अर्थात् सप्तदण्डकेषु त्रयः समुद्धाता भवन्तीत्यर्थः । नवमं समुद्घातद्वारं व्याख्यातं । अथ दशमं दृष्टिद्वारं कथ्यते । विगलेति विकलेषु द्वित्रिचतुरिन्द्रयेषु द्वे दृष्टी भवतः, सम्यग्दृष्टिमिथ्यादृष्टिश्चेत्यर्थः । स्थावराणामेका मिथ्यादृष्टिः स्यात् । सेसेति० शेषेषु दण्डकेषु तिस्रो दृष्टयो भवन्ति । सविस्तरेणाह-नैर| यिकाणां भवनपत्यादिवैमानिकान्तानां देवानां मनुष्याणां गर्भजतिरश्चां च तिस्रो दृष्टयः प्राप्यन्ते । कोऽर्थः ? पोडशदण्डकेषु तिस्रो ६ दृष्टयो भवन्तीत्यर्थः । दशमं दृष्टिद्वारं व्याख्यातं । चः समुच्चयार्थः ॥ १८ ॥
SANSAR
॥१०॥
For Private and Personal Use Only