________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
RECENSHREE
AAAAACARALA
अथ एकादशं दर्शनद्वारमाह| थावरबितिसुअचक्खू , चउरिदिसु तदुगं सुए भणियं । मणुआ चउदंसणिणो, सेसेसु तिग तिगं भणिअं ॥१९॥
(अव० ) स्थावरद्वीन्द्रियत्रीन्द्रियेषु केवलमचक्षुर्दर्शनं, चतुरिन्द्रियेषु तद्विकं चक्षुरचक्षुरूपं श्रुते कर्मग्रन्थादौ भणितं, मनुष्या-2 श्चतुर्दर्शनिनः । शेषेषु सुरनारकतिर्यक्षु त्रिकं त्रिकं दर्शनस्य चक्षुरचक्षुरवधिरूपं ।११। ॥१९॥ द्वारद्वयं समकमाह
टीका-थावरवितिसुत्ति पञ्चसु स्थावरेषु द्वीन्द्रियेयु त्रीन्द्रियेषु च अचक्षुर्दर्शनमेकं भणितं प्रोक्तं श्रुते । चतुरिन्द्रियेषु तद्द्विकं भणितं तयोश्च चक्षुरचक्षुर्दर्शनयोकिं तद्विकं । च पुनः मनुष्याः चतुर्दर्शनिनो भवन्ति, मनुष्येषु चत्वारि चक्षुरचक्षुरव धिकेवलरूपाणि दर्शनानि भणितानीत्यर्थः । सेसेसु तिगं तिगति० शेषेषु दण्डकेषु त्रिकं त्रिकं भणितम् । नैरयिकेषु भवनपत्यादि- | वैमानिकावसानेषु तिर्यक्षु चाद्यानि त्रीणि दर्शनानि भवन्ति एतावता पश्चदशदण्ड केषु त्रीणि आधानि दर्शनानि भवन्तीत्यर्थः । दर्शनद्वारं समुदीरितम् ॥ १९ ॥ अथ द्वादशं त्रयोदशं अज्ञानद्वारंज्ञानद्वारं व्याख्यान यति
अन्नाण नाण तिय तिय, सुरतिरिनिरए थिरे अनाणदुगं ।
नाणन्नाण दु विगले, मगुए पण नाण ति अनाणा ।। २० ॥ (अव०) द्वन्द्वैकवद्भावात् सुरतियग्निरयेऽज्ञानत्रिकं ज्ञानत्रिकं च भवंति सम्यक्त्वप्राप्तौ, स्थिरे अज्ञानद्विकं, यद्यपि भूदकवनेषु
AARE
For Private and Personal Use Only